________________
३३८
निशीथरले हस्तपादादिपरिपूर्णाङ्गाय साधवे साच्चै वा यदि कोपि मुनिः यत् पात्रादि वस्त्रपात्राधुपकरणजातं सातिरेकं साधुकल्पादधिकं तत् दद्यात् स दोपभाग् भवति-आज्ञाभङ्गादिदोपान् प्राप्नोतीति भावः ॥ सू० ६॥
सूत्रम्-जे भिक्खू अइरेगं पडिग्गहं खुड्डगस्स वा खुड्डियाए वा थेरगस्स वा थेरियाए वा हत्थछिण्णस्स पायच्छिण्णस्स नासाछिण्णस्स कण्णछिण्णस्स ओट्ठछिण्णस्स असकस्स न देइ न देंतं वा साइज्जइ ॥
__ छाया-“यो भिक्षुरतिरेकं प्रतिग्रह क्षुल्लकाय वा क्षुल्लिकार्य या स्थविराय वा स्थविरायै वा हलछिन्नाय पादछिन्नाय नासाछिन्नाय कर्णछिन्नाय ओष्टछिन्नाय मशक्ताय न ददाति न ददतं वा स्वदते ॥ सू० ७ ॥
चूर्णी--सूत्रोक्तहस्तछिन्नादिविशेषणविशिष्टेभ्यः, साधुसाध्वीभ्यः अतिरेकं पात्रं न ददाति न ददतमनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ७॥
सूत्रम-जे भिक्खू पडिग्ग अणलं अथिरं अधुवं अधारणिज्जं घरेइ धरतं वा साइज्जइ ।। सू०८॥
छाया-यो भिक्षुः प्रतिग्रहमनलमस्थिरमध्रुवमधारणीयं धरति घरन्तं वा स्वदते ॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् मिक्षुः 'पडिग्गई' प्रतिग्रह पात्रम् 'अणल' अनलम्-अपर्याप्तम् , नत्र अलं शब्दः पर्याप्त्यर्थकः न अलमनलम् अपर्याप्तम् असंपूर्ण खण्डितावयवमित्यर्थः 'अथिर' अस्थिरम् अदृढम् 'अधुवं' मध्रुवम् , तत्र ध्रुवं दीर्घकालभावि तथा च दीर्घकालभावि यत् न भवति तत् अध्रुवम् 'अधारणिज्ज' अधारणीयम् न धारयितुं योग्यं यत् तत् अवारणीयम् अलक्षणसम्पन्नमित्यर्थः यादृशं लक्षणं पात्रस्य कथितं तादृशलक्षणविहीनं यत् पात्रं तत अधारणीयमिति कथ्यते, एतादृशमनलमस्थिरमध्रुवमधारणीयपात्रम् यो भिक्षुः 'धरेइ' धरति, स्वममीपे स्थापयति तथा 'धरेंत' वा साइज्जई' धरन्तं वा स्वदते, यो हि अनलादिकपात्रस्य धारण करोति कारयति तस्यानुमोदनं वा करोति स प्रायश्चित्तभागी भवति ॥ सू० ८॥
सूत्रम्--जे भिक्खू पडिग्गहं अलं थिरं धुवं धारणिज्जं न धरेइ न धरत वा साइज्जइ ।। सू० ९॥
छाया-यो भिक्षुः प्रतिग्रहं अलं स्थिरं ध्रुवं धारणीयं न, धरति न धरन्तं वा स्वदते ।। सू० ९॥