________________
चूर्णिभाष्यावरिः उ०४१ सु०६-८ अतिरेकप्रतिग्रहस्य समर्थासमर्थाय दानादाननि० ३३७
सूत्रम्-जे भिक्खू अइरेगं पडिग्गहं खुड्डगस्स वा खुड्डियाए वा थेरस्स वा थेरियाए वा अहत्थच्छिन्नस्स अपायछिण्णस्स अनासाछिण्णस्स अकण्णछिण्णस्स अणोद्दछिण्णस्स सक्कस्स देइ देंतं वा साइज्जइ ।। सू०६॥
छाया-यो भिक्षुरतिरेकप्रतिग्रहं क्षुल्लकाय वा क्षुल्लिकायै वा स्थविराय वा स्थविराय वा अहस्तछिन्नाय अपादछिन्नाय अनासाछिन्नाय अकर्णछिन्नाय अनोष्ठछिन्नाय शकाय ददाति ददतं वा स्वदते ॥ सू० ६ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अइरेगं पडिग्गह' अतिरेकं प्रतिग्रहं प्रमाणादधिकं प्रतिग्रहं पात्रं यस्य पात्रस्य यावत् प्रमाणं शास्ने कथितं तदपेक्षया अधिकं पात्रमतिरेकमिति कथ्यते, तादृशपात्रम् 'खुड्डगस्स' क्षुल्लकायानतिक्रान्तवालवयस्काय वालकायेत्यर्थः, 'खुड्डियाए वा' क्षुल्लिकायै वा वालिकायै 'थेरगस्स वा' स्थविरायवृद्धाय वा 'थेरियाए वा' स्थविराय वा वृद्धायै इत्यर्थः, कथंभूतेभ्य-क्षुल्लकादिभ्यः ? तत्राह'अहत्थच्छिण्णस्स' अहस्तच्छिन्नाय न हस्तौ छिन्नौ भग्नौ यस्य स अहस्तछिन्नः हस्ताधवयवसंपन्नः, तस्मै महस्तछिन्नाय तथा 'अपायच्छिण्णस्स' अपादछिन्नाय न पादौ चरणौ छिन्नौ विभग्नौ यस्य स अपादछिन्नः पादावयवसम्पन्नः; तस्मै अपादच्छिन्नाय तथा 'अणासाच्छिण्णस्स' अनासाछिन्नाय न छिन्ने कर्तिते नासिके यस्य स अनासाछिन्नः तस्मै भनासाछिन्नाय नासिकावयवसम्पन्नाय 'अकण्णछिण्णस्स' अकर्णछिन्नाय-अच्छिन्नकर्णाय कर्णसंपन्नायेत्यर्थः 'अणोद्दछिण्णस्स' अनोष्ठछिन्नाय. न छिन्नौ ओष्ठौ पूर्वापरौ यस्य स तथाविधः तस्मै अनोष्ठछिन्नाय ओष्ठावयवसम्पन्नाय, एतावता सर्वावयवसम्पन्नत्वं प्रदर्शितम् अत एव 'सक्करस' शक्ताय समर्थाय, तत्र शारीरिकमानसिकादिवलयुक्तः समर्थः तादृशाय शक्तिसम्पन्नाय 'देई' ददाति सर्वाङ्गोपाङ्गयुक्तबलवीर्यादिसम्पन्नाय यो भिक्षुरातरेकपात्रं समर्पयति तथा 'देंतं वा साइज्जइ' ददतं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:भाष्यम्-वालस्स य वुड्डस्स य, साहुस्स साहुणिस्स वा।
सक्कस्साणंगछिन्नस्स, देज्ज पत्ताइ दोसभा ॥ छाया--वालाय च वृद्धाय च साधवे साध्यै वा ।
शक्तायाऽनङ्गछिन्नाय दद्यात् पात्रादि दोषभाक् ॥ अवचूरि:-बालाय बाल्यावस्थासम्पन्नाय, वृद्धाय स्थविराय वा साधवे तथा एता'श्यै साध्यै वा, कोशाय ? शक्ताय शक्तिसम्पन्नाय गमनागमनसमर्थाय तथा अनङ्गछिन्नाय
१३