________________
चूर्णिभाष्यावद्भिः उ० १४ सू० ४-५
आच्छेद्यपात्रग्रहणानाशावितरणनिषेधः ३३५
-
-
------
अत्राह भाष्यकार:भाष्यम्-अच्छिज्ज तिविहं वुत्तं, पहु सामि य तेणए ।
एहिं छिज्जं च पत्ताइ, साहूणं णेव कप्पइ ॥ छाया---आच्छेद्य विविध प्रोक्त, प्रभु स्वामि च स्तेनकम् ।
पतैश्छेद्य च पात्रादि साधूनां नैव कल्पते । अवचूरिः-सूत्र यत् बलात्कारादिना पात्रादीनामाछेद्यत्वं कथितं तत् आछेचं त्रिविधं त्रिप्रकारकं भवति, प्रभ्वाछेद्य, स्वाम्याछेद्य स्तेनाय च । तत्र एतैः प्रभुप्रभृतिभिराछेद्य बलास्कारादिना गृहीतं पात्रादिकं पिण्डवस्त्रपात्राघुपधिः श्रमणानां श्रमणीनां च नैव कल्पते उपभोगाय तथा च प्रभ्वाच्छेचे उदाहरणम्--
कस्मिंश्चित् प्रामे एको गोप आसीत् , स च पयोविभागेन गाः रक्षति, गवां यत् दुग्धं भवति तत्रैकं भागं स्वयं गृह्णाति भागत्रयं च गोस्वामिने ददाति । अथवा दिनत्रयं सर्व दुग्धं गोस्वामिने ददाति चतुर्थे दिने यत् यत् दुग्धं तत्सर्वं स्वयं गृह्णाति, एतदेव गोपस्य वेतनम् । एवंप्रकारेण गोपालनं कुर्वन् गाः रक्षति । एकदा कदाचित् गोपालस्य पयोग्रहणदिवसे कश्चित् श्रमणः समागतः तदा गोस्वामी गवां पयो गृहीत्वा श्रमणाय दत्तवान् , यद्यपि गोपस्येदृशं कार्य नाभिमतं तेन तस्य मनसि अप्रियमभूत् तथापि तूष्णीमेव स्थितः मौनमेव स्थितः न्यूनमेव दुग्धं पयोभाजने गृहीत्वा स्वगृहं गतवान् । तदनन्तरं तत्पल्या गोपिकया पयोमाजनमभृतं दृष्टम् , तद्दृष्ट्वा सा प्रोवाच गोपं प्रति-कथमच पयोभाजने न्यूनमेव दुग्धं घिद्यते । गोपोऽवदत् हे गोपिके ! किं कथयामि मम दौर्भाग्यात् तत्रैको दुर्वर्णः श्रमणः समागतः तस्मै मम दुग्धं बलात् गृहीत्वा गोस्वामिना दत्तं ततो रिक्तं प्योभाजनं विद्यते, तदा सा गोपं प्रनि क्रुद्धा दुर्वाक्यं कथितवती । ततः स साधु मारयितुं समागतः, प्रयत्नेन मोचितः साधुरिति । तस्मादाच्छिय दीयमानमन्नादिकं न प्राह्यमिति । एवं स्वाम्याच्छेचमनेकस्वामिकं वस्तु एकस्यैवाज्ञया ग्रहणे स्वामिनां परस्परं कलहादिकं जायते अतस्तदपि त्याज्यम् । एवं स्तेनाच्छेद्यं चौरेण यच्चौर्यकर्मणाऽऽनीतं तत् भयप्रदर्शनपूर्वकं तद्धस्तादाच्छिद्य दीयमानं भवति, एतादृशवस्तुग्रहणे तदीयसंतत्यादिना श्रावकस्य प्राणभयादिसंभावना, ततस्तथा न कार्यम् ।। सू० ४ ॥
सूत्रम्-जे भिक्खू अतिरेगपडिग्गहं गणि, उद्देसिय गणि समुद्देसिय तं गणिं अणापुच्छिय अणामंतिय अण्णमण्णस्स वियरइ वियरंत वा साइज्जइ ॥ सू० ५॥