________________
३२६
निशोथसूत्रे चारित्रविराधकदोपेषु संसक्तः आसक्तः चारित्रविराधकदोषयुक्त इत्यर्थः, यथा गवादिमृतशरीरं कथितं सदनेकप्रकारककृमिनालाकीण भवति तथैव संसक्तोऽप्यनेकदोपाकीणों भवति, स बहुरूपिपुरुपवत् अनेकरूपधारी भवति, नटवत् मनेकरूपाणि करोति, वस्त्रवत् यथा हरिद्वारागरकं प्रक्षाल्य गेरुकादिरागरक्तं करोति, एवं संसक्तोऽपि नानाप्रकारको भवति, यथा पार्श्वस्येपु तिष्ठन् पार्श्वस्थो भवति, कुशीलेषु तिष्ठन् कुशीलो भवति, एवमवसन्नादिविषयेऽपि विज्ञेयम् । एवमन्येप्वपि यथाविधेषु तिष्ठन् यथाविध एव जायते । एतादृशं संसक्तं वन्दते ।। मू० ५६॥ प्रशंसति ।। सू० ५७|| 'अहाच्छंद' यथाच्छन्दम् , यथाच्छन्दः यथा यत्प्रकारकः छन्दः अभिप्राय उत्पद्यते तदनुसारं वर्त्तते यः स यथाच्छन्दः यथेच्छकार्यकारी मागमनिरपेक्षचारीत्यर्थः, तं वन्दते ॥ सू० ५८॥ प्रशंसति ।। सू० ५९॥ 'नितियं' नैत्यिकम् , नैस्यिका-नित्यपिण्डभोजी यः प्रतिदिनमेकस्मादेव गृहात् नियमत आहारादिकं गृह्णाति सः तादृशं वन्दते ॥ सू० ६०॥ प्रशंसति ।। सू० ६१॥ 'काहिय' काथिकम्, काथिकः कथाकारकः, योऽशनाचथै यशःकातिप्राप्त्यर्थं च धर्मादिकथां कथयति यः सः, तं वन्दते ॥ सू० ६२॥ प्रशंसति ।। सू० ६३॥ 'पासणियं' प्राग्निकम् , प्राश्निकः यः सावधप्रश्नं करोति, सावपमपि प्रश्नस्योत्तरं ददाति भूतभविष्यत्कालिकं शुभाशुभं प्रश्नस्योत्तरं ददाति सः, तं वन्दते ।। सू० ६४॥ प्रशंसति ॥ सू० ६५॥ 'मामगं' मामकम् , मामका-यः उपधिवस्त्रपात्रवसत्यादौ मम ममेति ममकारकरणात् मामकः प्रोच्यते, एते उपध्यादयो मम सन्ति न कोऽप्यन्यः एपामुपभोगं करोतु, इत्येवं कथनशीलो मामकः, यथा-मदीयो देशः सुन्दरः, वृक्षवापीसरस्तडागादिशोभितः नैतादृशोऽपरो देशः, सुविहारो मम देशः, यत्र सुलभवसतिभक्तोपकरणादयो वयो गुणाः सन्ति, यत्र शालिगोधूमादीनि अनेकप्रकारकाणि वस्तूनि निष्पद्यन्ते, यत्र गोमहिण्यादीना प्रभूतत्वेन दुग्धदधिनवनीतवृतादीनि प्रचुराणि भवन्ति, यत्र वस्त्रा. लकारादिभिरुपशोभितः स्त्रीपुरुषादिवर्तते, तत्र साधुसाध्वीनामुपद्रवकारको जनो न कोऽपि वर्तते, एतादृशो देशो मम, इत्यादिरूपेण सर्वत्र ममकारको मामकः प्रोच्यते तं वन्दते ॥ सू०६६॥ प्रशंसति ॥ सू० ६७॥ 'संपसारियं' साम्प्रसारिकम् , साम्प्रसारिक:-गृहस्थानां कार्यपु गुरुलाघवं संप्रसारयितुं विस्तारयितुं विस्तरेण तद्विस्तरेण तद्विषये संमति दातुं शीलं यस्य स संप्रसारी, स एव साम्प्रसारिकः गृहस्थानां व्यापारादिषु कौटुम्बिकोचितानुचितकार्येषु मार्गप्रदर्शकः, तं यो वन्दते ।। सू०६८॥ प्रशंसति प्रशंसन्तं वाऽन्यं स्वदते अनुमोदते सः आज्ञामङ्गादिदोषान् प्राप्नोतीति ।
मत्राह भाष्यकार:भाष्यम्-पासत्थं च समारभ, संपसारियमंतगं ।
वंदइ पसंसई चेव, आणाभंगाइ पावई ।।