________________
चूर्णिभाष्यावरिः उ० १३ सू० १२ अन्यतीर्थकादीनां शिल्पादिकलाशिक्षणनिषेध : ३११
इष्टिकादारसंघातो वा तस्मिन् ‘फलिहंसि वा' परिधे वा, तत्र परिघो नाम अर्गलाकारो लम्बकाष्ठविशेषः, तस्मिन् 'मंचंसि वा' मञ्चे वा काष्ठस्तम्भोपरि निर्मिते खट्वाकारे मञ्चे 'मंडवंसि वा मण्डपे वा, तत्र मण्डपः-काष्ठनिर्मितं निर्मित्तिकं स्थानं तस्मिन् 'मालंसि त्रा' माले वा, तत्र मालं गृहोपरि द्विभूमिकादि तस्मिन् । 'पासायंसि वा' प्रासादे वा-प्रासादः-जीर्णराजगृहं तस्मिन् 'हम्मतलंसिवा' हर्म्यतले वा, हम्य जीर्णधनिकजननिवासस्थानम्, तस्मिन् , कीदृशे इत्याह'दुबद्धे' दुर्वद्धे शिथिलबन्धनयुक्ते 'दुण्णिविखत्ते' दुनिक्षिप्ते-सम्यगनवस्थापिते 'अणिक्कंपे' अनिष्कम्पे-कम्पनादिविशिष्टे अत एव चलाचले अस्थिरे, एतादृशस्कन्धादौ यो भिक्षुः 'ठाणं वा' स्थानं वा कायोत्सर्ग वा 'सेज्नं वा' शय्यां वा शयनीयम् ‘णिसेज्जं वा' निषधामासनं वा 'णिसीहियं वा' नैपेधिकी वा स्वाध्यायादिकरणम् 'चेएइ' चेतयते 'चेएत वा साइज्जइ' घेतयमानं स्कन्धादिषु अस्थिरादिषु स्थानादिकं कुर्वन्तं श्रमणान्तरं यः श्रमणः श्रमणी वा स्वदते मनुमोदते स प्रायश्चित्तभागी भवति ।।
अत्राह भाष्यकारःभाष्यम्-थूणा-कुलिय-क्खंधा,-इयं खुजं आहियं च मुत्तेसु ।
तेसुं ठाणाइकरणा, लम्भेज्जा आणभंगाई ॥ छाया--स्थूणा-फुडध-स्कन्धादिकं खु यत् आश्यातं च सूत्रेषु ।
तेषु स्थानादिकरणात् लभेताशाभङ्गादिकम् ॥ अवचूरिः-सूत्रेपु-नवमदशमैकादशेष स्थूणाकुड्यस्कन्धादिकं यत् यावन्मात्रमाख्यातं कथितं तेषु स्थूणादिपु स्थानेषु स्थानादिकरणात् कायोत्सर्ग-शय्या-निषद्यादि-संपादनात् श्रमणः श्रमणी वा आज्ञाभङ्गादिकान् आज्ञाभगानवस्थामिथ्यात्वसंयमविराधनात्मविराधनालक्षणान् दोषान् लमेत प्राप्नुयात् ॥ सू • ११ ॥
सूत्रम्--जे भिक्खू अण्णउत्थियं वा गारत्थियं वा सिप्पं वा सिलोगं वा अट्ठावयं वा कक्कडगं वा वुग्गहं वा सलाहं वा सलाहकहत्थयं वा सिक्खावेइ सिक्खावेत वा साइज्जइ ॥ सू० १२॥
छाया-यो भिक्षुरन्ययूथिकं पा गार्हस्थिकं वा शिल्पं वा प्रलोकं वा अष्टापदं या कर्कटकं वा व्युग्रहं वा श्लाघं वा प्रलाधकथास्तवं वा शिक्षयति शिक्षयन्तं वा स्वदते ॥ सू० १२॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियं वा अन्ययूथिकं वा परदर्शनानुयायिनं तापसादिकम् 'गारत्थिय वा गार्हस्थिक