SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावरिः उ १३ सू० ९-११ दुर्बद्धादिविशिष्टस्थूणादिषु स्थानादिकरणनि० ३०९ भिव्यक्तं न सर्वेषां दृष्टिपथमाविर्भवति तथैव अनभिव्यक्तत्वात् एकेन्द्रियाणां क्रोधादिकं नाविर्भवति, किन्तु पृथिव्यादिषु वर्तन्ते एवैकेन्द्रियजीवाः, तदुक्तम् क्रोधादिकपरिणामाः एकेन्द्रियादिजन्तुनाम् । प्राबल्यं तेषु कार्येषु अव्यक्तावात् न भवन्ति हि ॥१॥ यस्मात् कारणात् पृथिव्यादिका एकेन्द्रियजीवा अपि एवंविधवेदनादिकमनुभवन्ति तस्मात् कारणात् पृथिव्यायेकेन्द्रियजीवोपरि कायोत्सर्ग शयनीयमासनं स्वाध्यायादिसंपादनं च कथमपि सर्वविरतः श्रमणः श्रमणी वा स्वयं न कुर्यात् न वा परानपि तदुपरि स्थानादिकं कारयेत् , न पृथिव्यायेकेन्द्रियजीवानामुपरिस्थानादिवं कुर्वन्तमनुमोदेत किन्तु शास्त्रमर्यादामाश्रित्याचित्तभूम्यादावेव स्थानादिकं कुर्यात् कुर्वन्तमनुमोदेत ।।सू०८।। सूत्रम्-जे भिक्खू थूणसि वा गिहेलुयंसि वा उसुयालंसिवा कामजलंसि वा दुबद्धे दुण्णिक्खित्ते अणिक्कंपे चलाचले ठाणं वा सेज्जं वा णिसेज्ज वा णिसाहियं वा चेएइ चेएतं वा साइज्जइ ॥ सू० ९॥ छाया-यो भिक्षुः स्थूणायां वा गृहेलुके वा उसुकाले (उदूखले) वा कामजले वा (स्नानपीठे वा) दुर्बद्ध दुनिक्षिप्ते अनिष्कपे चलावले स्थानं वा शय्यां वा निषद्या बा नैवेधिकी पा चेतयते चेतयमानं वा स्वदते । सू० ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'थूणसि वा' स्थूणायां वा, तत्र स्थूणा नाम स्तंभः तस्यां स्थूणायां स्तम्मे 'गिहेलयंसि वा' गृहलके या देहल्यामित्यर्थः, 'उसुयालंसि वा' उसुकाले वा, तत्र उसुकालो नाम उदूखलम् 'ऊखल' इति लोकप्रसिद्धम् तस्मिन् 'कामजलंसि वा' कामजले वा, तत्र कामजलं नाम स्नानपीठादिकं यस्योपरि उपविश्य स्नानं करोति तादृशं साधनविशेषलक्षणं कामजलमिति तस्मिन् कामजले । कथंभूते स्थूणादौ ? इति स्थूणादिविशेषणान्याह-'दुब्बः' इत्यादि । 'दुब्बः दुर्वद्ध तत्र बन्धनं द्विविधम्-रज्जुबन्धनं, काष्ठादिषु वेधबन्धनं वा तत् बन्धनं सम्यक् न कृतं तत्, दुर्वद्धं शिथिलबन्धनमित्यर्थः तस्मिन् 'दुणिक्खित्ते' दुनिक्षिप्ते तत्र दुनिक्षिप्तं,-दुर्-असम्यक् निक्षिप्तं निहित तत्, न सम्यक् स्थापितमिति दुनिक्षिप्तम् तस्मिन् दुनिक्षिप्ते स्थूणादौ 'अणिक्कंपे' अनिष्कंपे, तत्र निष्कम्पः-कम्पनवर्जितः, न निष्कम्पः अनिष्कम्पः, तस्मिन् कम्पनविशिष्टे, यत एवम् अत एवं 'चलाचले' चलाचले अस्थिरे इत्यर्थः, एतादृशस्थूणादिषु स्थूणाघुपरि य: श्रमणः श्रमणी वा 'ठाणं वा' स्थानं वा 'सेज वा' शय्यां वा 'णिसेज्जं वा' निषद्यां वा 'निसीहियं वा', नैषेधिकी
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy