SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ૦૮ छाया -- पृथिव्यादिस्थानं तु यावन्मात्रमुदाहृतम् । तत्र स्थानादिकं कुर्यात् आवाभङ्गादि प्राप्नोति ॥ निशीथसं अवचूरि : - प्रथमसूत्रादारम्याष्टमसूत्रपर्यन्तसूत्रेषु यत् यत् पृथिव्यादिकस्थानमधिकरणत्वेन उदाहृतम् कथितम् सचित्तपृथिवीत आरम्य मर्कटसन्तानकान्तस्थानं सूत्रे यावन्मात्र यावत्प्रमाणकं कथितम् तेषु सचित्तपृथिव्यादिस्थानेषु स्थानादिकं स्थानशय्यानिषधास्वाध्यायादिकं यः कुर्यात् स श्रमणः श्रमणी वा आज्ञाभङ्गादिकान् दोषान् आज्ञाभङ्गानवस्थामिध्यात्वसंयमात्मविराधनालक्षणान् दोषान् प्राप्नुयात् लभते । अथ पृथिव्याधेकेन्द्रियाणां संघट्टनादिकरणे यादृशी वेदना भवति तां वेदनां दृष्टान्तद्वारेण दर्शयति तथाहि-यथा कश्चित् स्वभावतो दुर्वलो जराजीर्णो रोगेणापि आक्रान्तो भवेत्, सच वृद्धो बलवता तरुणेन त्रिंशद्वर्षायुष्केन युगलपाणिना सर्ववलेनाक्रान्तो भवेत् तदनन्तरं तस्य बृद्धस्य तरुणेनाक्रान्तस्य यादृशी वेदना भवति पृथिव्याद्ये केन्द्रियजीवानामुपरि स्थानादिकरणेन ततोऽप्यधिकतरा अनन्तगुणा वेदना भवति, परन्तु अव्यक्तत्वात् चर्मचक्षुषा ज्ञातुं न शक्यते, यानि च जीवस्य चिह्नानि तानि पृथिव्याद्ये केन्द्रियजीवेषु न व्यक्तानि यथा गाढनिद्रा निद्रितपुरुषे मूर्च्छिते वा सुखदुःखचिह्नानि अव्यक्तानि एवं पृथिव्याद्ये केन्द्रियजीवेष्वपि चैतन्यं चैतन्यचिह्नं चीतीवाव्यक्तम् तेनायं जीव इति न सकलसाधारणपुरुषेण ज्ञातं भवति, परं केवलं केवलज्ञानिना एव दृश्यते, तदुपदेशात् श्रद्धालुः परोपि जानाति, अश्रद्धालवो वस्तुतत्त्वं न जानन्ति । तेषामेव ज्ञानाय पृथिव्याद्ये केन्द्रियाणामुपयोगसाधकं दृष्टान्तं दर्शयामि, तद्यथा-रूक्षे भोजने अतिशयितः सूक्ष्मः स्नेहगुणो विद्यते यतः तादृशभोजनकरणेनापि शरीरस्योपचयो भवति परन्तु अव्यक्तत्वात् सत्त्वस्नेहगुणो न लक्ष्यते, एवं पृथिव्यामपि विद्यते सूक्ष्मः स्नेहः परन्तु अतिसूक्ष्मत्वात् न दृश्यते यतः पृथिव्यादिषु स तनूत्थितोऽल्पः तेन तेषां प्रबलस्नेहकार्ये हस्तादिशरीराणां चालनादिकं कर्तुमशक्यं भवति । एकेन्द्रियजीवानां क्रोधादिकाः परिणामा अपि भवन्ति साकारोऽनाकारचोपयोगः, तथा सातादिका वेदनाः, एते सर्वेऽपि भावाः सूक्ष्मत्वात् अनतिशयस्यानुपलक्षिता भवन्ति यथा संज्ञिनां पर्याप्तानां क्रोधादयः परिणामा भवन्ति, तेन च परिणामेन संज्ञिनों जीवा आक्रोशादिकं 'कुर्वन्ति त्रिवलीचालनादिकं च कुर्वन्ति परन्तु संज्ञिजीववत् एकेन्द्रियाः प्राबल्येन तादृशकार्यकरणं प्रति समर्था न भवन्ति, एतावानेव भेदः संज्ञिजीवेभ्य एकेन्द्रियजीवानाम्, किन्तु चेतनायोगात् सर्वमेव भवति पृथिव्याद्येकेन्द्रियजीवानामपि किं बहुना यथा वयमनुभवं कुर्मः तथैव पृथिव्याद्ये केन्द्रियजीवा अपि कुर्वन्ति तेपि सुखकारणे समुपस्थिते सुखिनो भवन्ति दुःखकारणे न ते दुःखमप्यनुभवन्ति, क्रोधादिकम् आक्रोशादिकमपि कुर्वन्ति, किन्तु यथा उदुम्बरपुष्पमन
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy