________________
चूर्णिभाष्यावचूरिः उ० १२ सू० १६-१८ काष्ठकर्मादि-चप्रादि-कच्छादिदर्शनेच्छानिषेधः ३२१
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा कष्ट । कम्माणि वा' काष्ठकर्माणि वा काष्ठनिर्मितप्रतिकृतिपुत्तलिकाविशेषलक्षणानि 'चित्तकम्माणि वी' चित्रकर्माणि वा-चित्रलिखितपुत्तलिकारूपाणि 'पोत्थकम्माणि वा' पुस्तकर्माणि वा-पुस्तकरूपाणि वनखण्डनिर्मितपुत्तलिकादिलक्षणानि वा 'लेप्पकम्माणि वा' लेप्यकर्माणि वा लेपनादिना निर्मितपुत्तलिकादिरूपाणि 'दंतकम्माणि वा' दन्तकर्माणि वा हस्तिदन्तादिनिर्मितवस्तूनि 'मणिकम्माणि वा' मणिकर्माणि वा चन्द्रकान्तमण्यादिनिर्मितानि वस्तूनि 'सेलकम्माणि वा' शैलकर्माणि' वा प्रस्तरखण्डे चित्रितानि रूपाणि गंथिमाणि वा' ग्रन्थिमानि वा ग्रन्थिनिर्मितपुत्तलिकोंदीनि 'वेढिमाणि वा' वेष्टिमानि वा वस्त्रादिभिर्वेष्टनं कृत्वा निर्मितानि वस्तूनि 'पूरिमाणि वा' पूरिमाणि वा तण्डुलादि पूयित्वा निमितानि स्वस्तिकादीनि 'संघाइमाणि वा' संघातिमानि अनेकवनखण्डान् संयोज्य कृतानि 'पत्तच्छेज्जाणि वा' पत्रछेयानि वा कदल्यादीनां पत्राणि छित्वा निर्मितानि पुत्तलिकादीनि भ्रमगदिवत् छिद्राणि कृत्वा चित्रितानि 'विविहाणि वा' विविधानि-अनेकप्रकाराणि वा 'वेहिमाणि वा' वैधिकानि वा पत्रकाष्ठादिवेधनेन निर्मितानि 'कोरणी' इति भाषा प्रसिद्धकर्मणा कृतानि, एतानि पूर्वोक्तानि सर्वाणि 'चक्खुदंसणवडियाए' चक्षुर्दर्शनप्रतिज्ञयां चक्षुषा दर्शनेन्छया 'अभिसंधारेइ' अभिसंधारयति चक्षुषा द्रष्टुं मनसि धारयति निश्चयं करोती. त्यर्थः 'अभिसंधारेत वा साइज्जइ' अभिसन्धारयन्तं वा स्वदते अनुमोदते, यो हि श्रमणः काष्ठकर्मादीनि द्रष्टुं निश्चयं करोति तथा निश्चयं कुर्वन्तं योऽनुमोदते स प्रायश्चित्तंभागी. भवति ॥ सू० १६॥
सूत्रम्--जे भिक्खू वप्पाणि वा फलिहाणिवा उप्पलानि वा पल्ललाणि वा उज्झराणि वा निज्झराणि वा वावीणि वा पोक्खरिणी वा.दीहिं. याणि वा गुंजालियाणि वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ॥सू०१७॥
छाया-यो भिक्षः वप्रान् वा परिखा वा उत्पलानि वा पल्वलानि वा उज्झरान वा निर्झरान् वा वापीर्वा पुष्करिणी दीर्घिका वा गुंजालिका वा सरांसि वा सर:पंक्ती; सरासरस्पंक्तीर्वा चक्षुदर्शनप्रतिक्षया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥
चूर्णी-'जे भिक्खू, इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वप्पाणि वा' वप्रान् क्षेत्राणि वा 'फलिहाणि वा' परिखा वा-खातविशेषान् ‘उप्पलाणि वा' उत्पलानि वा-उत्पलस्थानभूतान् जलाशयविशेषान् 'पल्ललाणिव' पल्बलानि वा, तत्र पल्वलानि क्षद्रजलाशयाः । तानि 'उज्झराणि वा' उज्झरान् वा-उपरितः पतज्जलप्रवाहान् वा 'निझराणि वां' निर्झरान वां"