SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २९० .. निशीथस्त्रे '; छाया-यो भिक्षुग्रहस्थानां वा अन्यतीथिकानां वा शीतोदकपरिभोगेन हस्तेन चा मात्रकेण वा दा वा भाजनेन चा अशनं घा पानं वा साद्यं वा स्वाद्य वा प्रनिगृहाति प्रतिगृह्यन्तं वा स्वदते सू० १५॥ . चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' य. कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिहत्याण वा' गृहस्थानां वा, तत्र गृहस्थाः श्रोत्रियब्राह्मणादिकाः शुचिवादिनः तेषां गृहस्थानां श्रोत्रियब्राह्मणानां तथा 'अण्णतित्थियाण या' अन्यतीथिकानां वा, तत्रान्यतीथिकाः परिबाजकादयः, तेपामन्यतार्थिकानां परिवाजकतापसादीनां 'सीओदगपरिमोगेण' शीतोदकपरिभोगेन, ,शीतोदकस्य परिभोगः नित्यमार्द्रतारूपो यस्य स शीतोदकपरिभोगः निरन्तरशीतोदकादेतायुक्त इत्यर्थः, तेन हस्तेन 'मत्तेण वा' मात्रकेण वा पात्रविशेपेण 'दबीए वा' दा, काष्ठमय्या 'चाटु' इति प्रसिद्वया 'भायणेण वा' भाजनेन वा सचित्तशीतोदकप्रक्षालितभाजनेन वा 'असणं वा ४' अशनादिचतुर्विधमाहारं 'पडिग्गाहेइ' प्रतिगृह्णाति स्वीकगेति तथा 'पडिग्गाहेत वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति । शुचिवादिश्रोत्रिया ब्राह्मणा गृहस्थाः परिव्राजकादयो वा, ते च प्रायः पात्रादि काष्ठमयमेव रक्षन्ति, निरन्तरशीतोदकार्द्रस्य अन्तो जललेपत्वेन तस्याईता न निर्गच्छति, हस्तावपि ते वारं वारं धावन्ति तत. स्तावपि प्राय आद्रौ एव लभ्येते ततस्तादशहस्तादिना यदि साधुरशनादि गृहाति तदनन्तरं ते शीतजलेन तानि हस्तपात्रादीनि अवश्यमेव प्रक्षालयिष्यन्ति ततस्तद्गतलेपस्य परिहारदुःशक्यत्वेन बहुना सचित्तजलेन वारं वारं प्रक्षालनं करिष्यन्ति, तेन साधोः पश्चात्कर्मदोषः समापयेत, तथाऽत्र पुराकर्मदोषोऽपि समापयेत यतस्ते भिक्षादानात् पूर्वमपि हस्तादि प्रक्षालयन्ति , तस्मात् पश्चाकर्मपुराकर्मेति दोषद्वयसंभवात् तादृशगृहस्थादीनां हस्तादिना साधुरशनादि चतुर्विधमाहारं न गृह्णीयात् , गृह्णन्तं चान्यं नानुमोदेतेति ॥सू० १५|| ' 'सूत्रम्-जे भिक्खू कट्ठकम्माणि वा पोत्थकम्माणि वा चित्तकम्माणि वा. लेप्पकम्माणि वा दंतकम्माणि वा मणिकम्माणि वा सेलकम्माणि वा गंथिमाणि वा वेढिमाणि वा पूरिमाणि वा संघाइमाणि वा पत्तच्छेज्जाणि वा विविहाणि वा वेहिमाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेत वा साइज्जइ ।। सू० १६॥ 7. -छाया-यो भिक्षुः काष्ठफर्माणि वा पुस्तकर्माणि वा चित्रकर्माणि वा लेप्यकर्माणि वा दन्तकर्माणि वा मणिकर्माणि चा शेलकर्माणि वा ग्रन्थिमानि वा वेष्टिमाणि वा पूरिमाणि वा संघातिमानि वा पत्रच्छेद्यानि वा विविधानि वा वेधिमानि वा चक्षुर्दर्शनप्रतिक्षया अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ।। सू० १६॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy