SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ पूर्णिभाष्यावचूरिः उ० ११ सू० ९२ गिरिपतनादिविंशतिविधमरणप्रशंसानि० २७९ पिप्पल्यादिकं यः श्रमणः श्रमणी वा 'आहारेइ' आहरति पर्युषितपिपल्यादीनाम् उपभोगं करोति तथा 'आहारेंतं वा साइज्जइ' आहरन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू९१॥ सूत्रम्-जे भिक्खू गिरिपडणाणि वा मरुपडणाणि वा भिगुपडणाणि वा तरुपडणाणि वा गिरिपक्वंदणाणि वा मरुपक्वंदणाणि भिगुपक्वंणाणि वा तरुपक्खंदणाणि वा जलप्पवेसाणि वा जलणपवेसाणि वा जलपक्खंदणाणि वा जलणपक्खंदणाणि वा विसभक्षणाणि वा सत्थोपाडणाणि वा वलयमरणाणि वा वसट्टाणि वा तम्भवमरणाणि वा अंतोसल्लमरणाणि वा वेहायसाणि वा गिद्धपट्ठाणि वा जाव अण्णयराणि वा तहप्पगाराणि वा वालमरणाणि पसंसइ पसंसंतं वा साइज्जइ ।। सू० ९२॥ छाया--यो भिक्षुः गिरिपतनानि वा १, मरुपतनानि वा २, भृगुपतनानि वा ३, तरुपतनानि वा ४, गिरिप्रस्कन्दनानि वा ५, मरुप्रस्कन्दनानि वा ६, भृगुप्रस्कन्दनानि ७, तरुप्रस्कन्दनानि वा ८, जलप्रवेशनानि वा ९, ज्वलनप्रवेशनानि पा १०, जलप्रस्कन्दनानि वा ११, ज्वलनप्रस्कन्दनानि वा १२, विपभक्षणानि वा १३, शस्त्रोत्पातनानि वा १४, वलयमरणानि वा १५ वशार्तमरणानि वा १६, तद्भवमरणानि वा १७, अन्तःशल्यमरणानि वा १८, वैहायसानि वा १९, गृद्धस्पृष्टानि वा २० यावद् अन्यतराणि वा तथाप्रकाराणि वा वालमरणानि प्रशंसति प्रशंसन्तं वा स्वदते । सू० ९२॥ चूर्णी:-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिरिपडणाणि वा गिरिपतनानि वा-पर्वतामात् पतनानि, मरणप्रसङ्गात् गिरिपतनमरणानी त्यर्थः, एवमग्रेऽपि, 'मरुपडणाणि वा' मरुपतनानि वा मरौ ऊपरभूमौ धूलीपुजे वा पतनम् मरुपतनम् , मरो ऊपरभूमौ श्रीरपातनं, यद्वा यत्रतः पतनं दृश्यते तद् गिरिपतनम् , अदृश्यमानं पतनं मरुपतनम् , तानि, 'भिगुपडणाणि वा' मृगुपतनानि वा-नदीतटादितः गर्मोदितो वा पतनं भृगुपतनं, तानि, 'तरुपडणाणि वा' तरुपतनानि वा-तरुशाखागवलम्ब्य पतनं तरुपतनम् तानि, 'गिरिपक्खंदणाणि वा' गिरिप्रस्कन्दनानि वा-प्रस्कन्दनं-गिरित 'उल्लुप्त्य पतनं, तान, पतनप्रस्कन्दनयोरयं भेदः-पतनं सामान्यतो लुठनम् , प्रस्कन्दनमुत्प्लुपुत्य-कूर्दयित्वा पतनमिति । 'मरुपक्खंदणाणि वा' मरुप्रस्कन्दनानि वा-ऊपरभूमौ धूलिपुजे वा उत्प्लुत्य पतनानि 'भिगुपक्खंदणाणि वा' भृगुप्रस्कन्दनानि वा-नदीतटादिषु गादिषु अदृश्यमानस्थाने वा उत्प्लुत्य पतनानि, 'तरुपक्खंदणाणि वा' तरुप्रस्कन्दनानि वा वृक्षत उत्प्लुत्य पतनानि, 'जलप्पवेसणाणि वा' जलप्रवेशनानि वा नदीकूपतडागादिषु प्रवेशनानि, 'जलणप्पवेसणाणि वा' ज्वलनप्रवेशनानि वा
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy