________________
चर्णिभाष्यावरिः उ० ११ सू० ८७-९१ सचेलावेलपरस्परसंहवासनिषेधः २७७
छाया--यो भिक्षुतिकेन वा अज्ञातकेन वा उपासकेन वा अनुपासकेन वा अनलेन वैयावृत्यं कारयति कारयन्तं वा स्वदते ॥सू० ८६॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णायगेण वा' ज्ञातकेन वा-स्वजनेन वा 'अणायगेण वा' अज्ञातकेन अस्वजनेनाऽपरिचितेन वा तथा 'उवासगेण वा' उपासकेन श्रावकेण आराधितश्रुतचारित्रलक्षणधर्मेण इत्यर्थः 'अणुवासगेण वा' अनुपासकेन श्रावकभिन्नेन परतीथिंकेनेत्यर्थः 'अणलेण' अनलेन अयोग्येन उपलक्षणाद् योग्येनापि केनचिदपि गृहस्थेन स्वकीयम् 'वेयावच्चं' वैयावृत्त्यं सेवाशुश्रूषादिलक्षणम् 'कारावेई' कारयति 'कारावेतं वा साइज्जइ' कारयन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू०८६॥
सूत्रम्-जे भिक्खू सचेले सचेलगाणं मज्झे संवसइ संवसंतं वा साइज्जइ ॥ सू० ८७॥
छाया--यो भिक्षुः सचेलः सचेलिकानां मध्ये संवसति संवसन्तं वा स्वदते ॥८७॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः 'सचेले' सचैलः, तत्र चेलं वस्त्रं तद्वान् सचेलः स्थविरकल्पीत्यर्थः 'सचेलगाणं' सचेलकानां स्थविरकल्पिकानां भिन्नसामाचारीकाणाम् 'मज्झे' मध्ये 'संवसई' संवसति निवासं करोति 'संवसंत वा साइज्जई' संवसन्तं वा स्वदते, यो हि सचेलः स्थविरकल्पी श्रमणः सचेलकानां भिन्नसामाचारीक स्थविरकल्पिसंयतानां मध्ये निवासं करोति तमनुमोदते स प्रायश्चित्तभागी भवति । भिन्नसामाचारीकसंयतः सह वासं कुर्वतोऽनेकप्रकारकदोषसंभवात् , मतो न तैः। सह कदाचिदपि संवासो विधेय इति ॥ सू० ८७॥
सूत्रम्-जे भिक्खू सचेले अचेलगाणं मज्झे संवसइ संवसंतं वा साइज्जइ ॥सू० ८८॥
छाया-यो भिक्षुः सचेलोऽचेलकानां मध्ये संवसति संवसन्तं वा स्वदते ॥८॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सचेले' सचेलः-स्थविरकल्पिक इत्यर्थः 'अचेलगाणं' अचेलकानां जिनकल्पिकानाम् 'मज्झे मध्ये 'संवसई' सवसति निवास करोति 'संवसंतं वा साइज्जई' संवसन्तं अचेलकानां मध्ये निवासं कुर्वन्तं सचेलं स्वदते अनुमोदते, यो हि स्थविरकल्पी जिनकल्पिकानां मध्ये निवासं करोति कुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति । सू० ८८॥
सूत्रम्-जे भिक्खू अचेले सचेलगाणं मज्झे संवसइ संवसंत वा साइज्जइ ॥ सू०८९॥