________________
चूर्णिभाज्यावचूरिः उ० १० सू० ४६-४७
पर्युषणाकृत्यनिरूपणम् २५७ ततो दीर्घान् गोलोमप्रमाणमात्रादधिकान् स्थापयति मस्तकोपरि धारयति केशलुञ्चनं न करोति स भिक्षुः माज्ञाभङ्गादिकान् दोषान् आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादोपान् प्राप्नोति, तथा सकेशमस्तकोपरि कदाचित् जलादिपतने अकायिकजीवानां विराधनेन संयमविनाशः, तथा प्रवृद्वकेशेषु यूकालिक्षादयोऽपि संमूर्छिता. सन्तो विराधिता भवेयुः इति शिरसः खर्जन यूकालिक्षादीनां विनाशेन संयमविनाशः, तथा अनिशयेन कण्ड्यने कदाचिदात्मविराधनमपि संभवेत् तस्मात् कारणात् साधुः वर्षाकाले पर्युपणायामवश्यमेव केशान् लुञ्चयेत् , पर्युषणां नैवातिकामेत् । यदि तरुणो बलवान् भवेत् तदा उत्कर्पतश्चतुर्मासानन्तरमवश्यमेव केशलुञ्चनं कुर्यात् , स्थविरस्याप्येवमेव उत्कर्षतः षण्मासानन्तरमिति सू० ४५॥
सूत्रम्--जे भिक्खू पज्जासवणाए इत्तरियपि आहारमाहारेइ आहारतं वा साइज्जइ सू० ४६॥
छाया—यो भिक्षुः पर्युपणायामित्वरिकमपि आहारमाहरति आहरन्त वा स्वदते ॥
चूर्णी-जे भिक्खू इत्यादि। 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणो वा 'पज्जोसवणाए' पर्युषणायां सांवत्सरिकप्रतिक्रमणदिवसे भाद्रपदशुक्लपञ्चम्याम् 'इत्तरियंपि' इत्वरिकमपि अल्पमणि 'आहार' आहारस् अशनपानखादिमस्वादिमरूपं चतुर्विधाहारमध्यात् यत् किमप्येकमल्पप्रमाणकमपि आहारजातम सिक्थमात्रमपि, जलस्य बिन्दुमात्रमषि 'आहारेई' आहरति-आहारस्योपभोगं करोति कारयति वा तथा 'आहारतं वा साइज्जई' आहरन्तं पर्युष. णादिवसे अल्पप्रमाणमपि अशनादिकमुपभुजानं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारःभाष्यम्-इत्तरियपि य असणं, पज्जोसवणाए आहरे जो उ ।
सो पावइ पच्छित्तं, आणाभंगाइदोसे य ॥ छाया-इत्वरिकमप्यशनं पर्युपणायां आहरेद् यस्तु ।
स प्राप्नोति प्रायश्चित्तमाशाभङ्गादिदोषाँच्च ॥ अवचूरिः-यो भिक्षुः श्रमणः श्रमणी वा पर्युपणायां सांवत्सरिकप्रतिक्रमणदिवसे इत्वरिकमपि, तत्र इत्वरं-स्तोकमल्पमपि अशनं चतुर्विधमाहारं आहरति स भिक्षुः प्रायश्चित्तं प्राप्नोति, तथा आज्ञाभङ्गादिदोषांश्च प्राप्नोति लभते चातुर्मासिकं गुरुप्रायश्चित्तमपि तस्य भवतीति तस्मात् कारणात् श्रमणः श्रमणी वा सांवत्सरिकप्रतिक्रमणदिवसे स्तोकमप्याहारं न स्वयमाहरेत् न वा परानाहारयेत् न वा आहरन्तमनुमोदयेत् किन्तु या सामाचारी साधूनां ताम् अवलम्व्यैव धर्मध्यानादिकं कुर्यादिति ॥सू० ४६॥