________________
चूणभाष्यावद्भिः उ० १० सू० २०-३१ उद्घातिकानुद्घातिकसहसंभोगनिषेधः २४१
सूत्रम्-जे भिक्खू उग्घाइयं सोच्चा णच्चा संभुंजइ सं जंतं वा साइज्जइ ।। सू० २० ॥
छाया-यो भिक्षुरुद्घातिकं श्रुत्वा ज्ञात्वा च संभुङ्क्ते संभुञ्जान वा स्वदते ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'उग्धाइयं उद्घातिकं लघुप्रायश्चित्तधारिणम् , तत्र उद्घातिकं नाम यत् सान्तरं वहति, अयं साधुलघुमासिकं प्रायश्चित्तं वहति इति 'सोच्चा' श्रुत्वा अन्यसकाशात् 'णच्चा' ज्ञात्वा स्वयमेव सद्यो ज्ञात्वा कारणोपपत्तितो वा ज्ञात्वा--'संभुंजइ' संभुक्ते 'अयं लघुकं प्रायश्चित्तं वहति' इति श्रुत्वा ज्ञात्वाऽपि तेन श्रमणेन सह एकत्र मण्डल्या माहारमाहरति तथा 'संभुंजतं वा साइज्जई' संमुंजानं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवतीति ।।सू० २०॥
सूत्रम्-जे भिक्खू उग्घाइय हेउं सोच्चा णच्चा संभुंजइ संभुजंतं वा साइज्जइ ॥ सू० २१॥
छाया- यो भिक्षुरुद्धातिकहेतुं श्रुत्वा ज्ञात्वा संभुफ्ते संभुञ्जानं वा स्वदते ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा "उग्घाइयदेउ' उद्घातिकहेतु-उद्घातिकं नाम यत् प्रायश्चित्तं सान्तरमुह्यते लघुप्रायश्चित्तमित्यर्थः, तस्य हेतुं कारणम् , अस्य साधोर्लघुप्रायश्चित्तसेवनस्य कारणं वर्त्तते, इत्येवं कारणम्, अथवा प्रायश्चित्तापन्नस्य यावत्प्रायश्चित्तमनासेवितं भवेत्तावत् हेतुरुच्यते, स द्विधा उह्यते शुद्धितपसा परिहारतपसा वा, तं तादृशं हेतुम् 'सोच्चा' श्रुत्वा अन्यसकाशात् तथा 'णच्चा' ज्ञात्वा स्वयमेव तत्कारणं विज्ञाय अयं लघुमासिकप्रायश्चित्तहेतुमानिति अन्यसाधुसकाशात् श्रुत्वा स्वयमेव वा बुद्धिद्वारा विज्ञायापि तेन सह एकत्रमण्डल्याम् 'संभुजई' संभुड्क्ते 'संभुंजतं वा साइज्जइ' सभुजानं वा स्वदते स प्रायश्चित्तभागी भवति । सू० २१॥
सूत्रम्-जे भिक्खू उग्घाइयसंकप्पं सोच्चा णच्चा संभुंजइ संभुंजतं वा साइज्जड ।। सू० २२॥
छाया-यो भिक्षुरुद्घातिकसंकल्पं श्रुत्वा ज्ञात्वा संभुङ्क्ते संभुञ्जान वा स्वदते ॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'उग्याइयसंकप्पं' उद्घातिकसंकल्पम्-उद्घातिकप्रायश्चिसंकल्पवन्तं यथा-'अहमुद्घातिकप्रायश्चित्तं ग्रहीष्यामी' -ति स्वविषयकं संकल्पम्, अथवा गुरुणा कथितो भवेत् यत् तवैतत प्रायश्चित्तं दास्यामी'-ति गुरुविषयकसंकल्पम् , अयमपि द्विधा उह्यते शुद्धतपसा परिहारतपसा