________________
२३८
M
निशोथसूत्र सूत्रम्-जे भिक्खू साहिगरणं अविओसमियपाहुडं अकडपायच्छित्तं परं तिरायाओ विप्फालिय अविप्फालिय संभुंजइ सं जंतं वा सा इज्जइ ॥सू० १५॥
छाया–यो भिक्षुः साधिकरणमन्युपशामितप्राभृतमकृतप्रायश्चितं परं त्रिरात्रात् विस्फाल्य अविस्फाल्य संभुङ्क्ते संभुजानं वा स्वदते ॥सू० १५ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'साहिगरणं' अधिकरणेन-कपायभावेन सहितो युक्तः साधिकरणः, तम् साधिकरणम् 'अविओसमियपाहुडं' अव्युपशामितप्रामृतम् वि-विविधैर्मनोवाक्कायैः करणकारणानुमोदनैश्च त्रिविधमधिकरणं त्रिविधत्रिविधैः उपशामितः स्वापराधस्वीकारपूर्वकं क्षामित. प्राभृतः कलहो येन स व्युपशामितप्रामृतः, न तथेति भव्युपशामितप्राभृतः कलहव्युपशामनारहित इत्यर्थस्तम्-'अकडपायच्छित्तं' अकृतप्राश्चित्तम् अकृतं कृते च कलहे यत् प्रायश्चित्तमापद्यते तत् न कृतं न गृहीतं येन स अकृतप्रायश्चित्तस्तम् 'विप्फालिय' विस्फाल्य-पृष्ट्वा कलहकरणविषये तद्वयुपशामनायाः करणाकरणे, तत्प्रायश्चित्तस्य ग्रहणाग्रहणे च आपृच्छ्य 'अविष्फालिय' अविस्फाल्य पूर्वोक्तविषयमनापृच्छ्य वा पृच्छामन्तरेणेत्यर्थः 'परं तिरायाओ' परं त्रिरात्रात् रात्रित्रयात् परतः 'संभंजइ' तेन सह एकस्मिन् मण्डले संभुङ्क्ते चतुर्विधाहारजातस्योपभोगं करोति कारयति वा तथा 'संभुंजतं वा साइज्जई' संभुनाने वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:भाप्यम्-साहिगरणो य दुविहो, सपक्ख-परपक्ख-भेयओ होइ।
इक्किको पुण दुविहो गच्छगओ गच्छनिग्गओ वावि ॥ छाया-साधिकरणो द्विविधः, स्वपक्ष-परपक्ष-मेदतो भवति ।
एकेका पुनद्विविधः गच्छगतो गच्छनिर्गतो वापि ।। अवचूरिः-साधिकरणः अधि-अधिकं साधुमर्यादातिरिक्त करणम् अधिकरणं कलहकरणमित्यर्थः, तेन अधिकरणेन कलहेन सह वर्तते यः सः साधिकरणः कलहविशिष्टः साधुः स स्वपक्षपरपक्षमेढतो द्विविधो भवति-स्वपक्षगतः साधिकरणः, परपक्षगतः साधिकरणश्चेति । तत्र स्वपक्षगत इति स्वगच्छसाधुः परपक्षगत इति परगच्छसाधुः । अथवा स्वपक्षे साधिकरणः साधुना सह कलहकरणशीलः, परपक्षे साधिकरणः गृहस्थेन सह कलहकरणशील इति । अयमेकैको द्विविधः गच्छगतः, अथवा गच्छनिर्गतश्च । तथाहि-तदिदमधिकरणम् सचित्ताचित्तमिश्रवस्तु प्रतीत्य जायते, तथाहि-कस्यचित कोऽपि शिष्योः जात., तं दृष्ट्वा अन्यः स्वगच्छवासी साधुर्वदति-मयं मम शिष्य