________________
चूर्णिभाष्यावचूरिः उ०९ सु० २१-२७ राजादीनां क्षत्रियादिपरार्थनिस्सारिताशनादेनि० २१७
इति चतुर्थ्या रूपम् 'चतुर्थ्याः षष्ठी' इति प्राकृतसूत्रपाठात् , प्राकृते चतुर्थीस्थाने षष्ठयेव विभक्तिः प्रयुज्यते ततः 'परस्स' 'परस्मै' इतिच्छाया भवति, एवमग्रेऽपि विज्ञेयम् । ततः परस्मै जातावेकवचनं ततः परेभ्य इत्यर्थः, परनिमित्तं'नीहडं' निर्हतम्-अन्येषां वक्ष्यमाणानां कृते बहिः निस्सारितं तत् 'पडिग्गाहेइ' प्रतिगृह्णाति स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति । केभ्यः परेभ्य इति तानेव दर्शयति-तंजहा' इत्यादि । 'तंजहा' तद्यथा-'खत्तियाण वा क्षत्रियेभ्यो वा 'रायाण वा' राजभ्यो वा 'कुरायाण वा' कुराजेभ्यः-कुत्सिताः राजान कुराजाः, तेभ्यः प्रत्यन्तदेशाधिपत्वात् 'रायपेसियाण वा' राजप्रेष्येभ्यो वा, एतेषामेव क्षत्रियादीनां ये प्रेष्या मृत्यास्तेभ्यः 'रायवंसियाण वा' राजवंश्येभ्यो वा एतेषामेव वंशे समुत्पन्नाः पुत्रमातृभ्रातृप्रभृतयः, तेषां कृते निस्सारितं चाशनादिकं गृह्णतः श्रमणस्य पाटश्चित्तं भवति, परजन्यप्रद्वेषान्तरायादौ एतादृशान्नस्यापि राजपिण्डत्वादेव । तथा-परजन्यप्रद्वेषान्तरायादिभ्योऽन्येऽपि बहवो दोषाः संभवन्तीति ॥ सू० २१ ॥
सूत्रम्-जे भिक्खू रण्णा खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असणं वा पाणं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ। तंजहा-णडाण वा णट्टगाण वा कच्छ्याण वा जल्लाण वा मल्लाण वा मुट्ठियाण वा वेलंबगाण वा कहगाण वा पवगाण वा लासगाण वा खेलयाण वा छत्ताणुयाण वा॥ सू० २२॥
छाया-यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानामशन वा पानं घा खाद्य वा स्वाद्य वा परस्मै निहत प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते । तद्यथा नटेभ्यो घा नर्तकेभ्यो वा कच्छुकेभ्यो वा जल्लेभ्यो वा मल्लेभ्यो वा मौष्टिकेभ्यो वा बेलम्बकेभ्यो वा कथकेभ्यो वा प्लवकेभ्यो वा लासकेभ्यो वा खेलकेभ्यो वा छत्रानुगेभ्यो वा ॥२२॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः ‘रण्णो' इत्यादि व्याख्या पूर्वसूत्रवत् कर्त्तव्या । अनागतपदानि व्याख्यायन्ते–'णडाण वा' नटेभ्यः नाटकादिकर्तृभ्योवा 'णगाण वा' नर्तकेभ्यो वा नृत्यकर्तृभ्यः, तत्र नर्तका नृत्यकर्तारः, अथवा अन्यान् ये नर्तयन्ति तेऽपि नर्तकाः तेभ्यः कच्छ्याण वा' कच्छुकानां वा, तत्र कच्छुः रज्जुस्तदुपरि नृत्यकारकाः कच्छुकाः, तेभ्यो वा 'जल्लाण चा' जल्लेभ्यो वा तत्र जल्लाः राजस्तुतिपाठकाः, अथवा वंशोपरिनर्तकाः, तेभ्यः 'मल्लाण वा' मल्लेभ्यो वा, तत्र मल्ला-मल्लयुद्धकारकाः प्रसिद्धाः, तेभ्यः 'मुट्रियाण वा मौष्ठिकेभ्यो वा मुष्टिप्रहारकाः-मुष्टियुद्धकारकाः, तेभ्यः 'बेलंवगाण वा' वेलम्बकेभ्यो वा, तत्र . २८