________________
२१६
निशोथसूत्रे
न कर्तव्यम् । एतासु दशसु राजधानीषु तादृशीण्वन्यासु वा मासाभ्यन्तरे यो भिक्षुर्द्विवारं त्रिवारं वा गमनागमनं करोति कारयति वा तथा गमनागमनं कुर्वन्तं वाऽन्यमनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:भाष्यम्-चंपाइयं च एयं, पुव्वुत्तं रायहाणिदसगं जं ।
रज्जाभिसेगसमए, दुत्तियवारं न गच्छेऽत्थ ॥१॥ छाया-चस्पादिकं चैतत् पूर्वोक्तं राजधानीदशकं यत्
___राज्याभिषेकसमये, द्वित्रिवारं न गच्छेदन ॥१॥
अवचूरिः – 'चंपाइयं' इत्यादि । एतत् चम्पादिकं राजधानीदशकं दश. राजधान्य इत्यर्थः यत् पूर्योक्तम् , अत्र दशसु राजधानीषु राज्याभिषेकसमये राज्याभिषेकमहोत्सवकाले भिक्षुः श्रमणः श्रमणी वा न गच्छेत् । उत्सवसमये एतासु राजधानीपु एकवारादधिकं द्विवारं त्रिवारं च भिक्षार्थमन्यकाथि वा गमने साधोवंहवो दोषा भवन्ति, तथाहि-उत्सवसमये तत्र हयानां गनानां रथानां जनानां च परस्परं संघट्टनरूपः संमर्दो भवति तेन तत्रत्यो मार्गोऽवरुद्धः स्यात् ततस्तत्र गमने आत्मविराधनासंभवः, तथा तत्र भिक्षायां बहुकालक्षेपो जायते, तेन स्वाध्यायध्यानादिषु व्याघातो भवति, तत्र भिक्षार्थ भ्रमणे लोकापवादोऽप्यवश्यम्भावी-यदयं साधुराहारलोलुपः स्त्र्यादिर्शनस्पर्शनलोलुपश्च दृश्यते, इत्यादि । यस्मादेते दोषा भवन्ति तस्मात्कारणात् श्रमणस्तत्र निष्कमणं वा प्रवेश वा न कुर्यात् न कारयेत् कुर्वन्तं वा नानुमोदयेत् । यद्येवं कुर्यात्तदा स प्रायश्चित्तभागी भवति, आज्ञाभङ्गादिदोषांश्चापि प्राप्नोतीति भाष्यगाथाभावार्थः ॥२०॥
सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असणं वा पाणं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ । तंजहा-खत्तियाण वा रायाण वा कुरायाण वा रायपेसियाण वा रायवंसियाण व-त्ति सू० २१॥
छाया-यो भिक्षुः राक्षः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानामशनं वा पानं घा खाद्य वा स्वाद्य वा परस्मै निहतं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते तद्यथा-क्षत्रियेभ्यः वा राजभ्यो वा कुराजेभ्यो वा राजप्रेष्येभ्यो वा राजवंश्येभ्यो वा, इति ॥सू० २१॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' राज्ञः 'खत्तियाण क्षत्रियाणाम् 'मुदियाणं' मुदितानाम् 'मुद्धाभिसित्ताणं' मूर्द्धाभिषिकानाम् 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनं पानं खाद्य स्वायं वा यत् 'परस्स नीहडं' अत्र 'परस्स'