SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०० : , . . . निशीथसूत्रे गुलं वा खंडं वा सक्करं वा मच्छंडियं वा भोयणजायं पडिग्गाहेइ पडिग्गाहेतं वा साइज्जइ ।सू० १०॥ . छाया- यो भिक्षुः गक्षः क्षत्रियाणां मुदितानां मूर्धाभिपिकानां सन्निधिसनिचयात् क्षीरं वा दधि वा नवनीतं वा सपिर्वा तैलं वा गुड वा लंडं वा शर्करां वा मत्स्यडिक वा अन्यतरद् वा भोजनजातं प्रतिगृह्णाति प्रतिगृह्यन्तं वा स्वदते ॥सू० १८॥ __चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' इत्यादि-राजादीनां 'सण्णिहिसण्णिचयाओ' सन्निधिसंनिचयात् , तत्र सन्निधिर्नाम दघिदुग्धगुडखंडादिद्रव्यम् तद् द्विविध-विनाशि अवनाशि च, तत्र विनाशिम्-दधिदुग्धनवनीतप्रमृति अल्पकालेन विकृतिसंभवात् , अविनाशिद्रव्यम् घृततलगुडखण्डशर्कगमत्स्यण्डिकप्रमृति बहुकालस्थायित्वात् उक्तञ्च 'मोदणगोरसमादी, विणासिदव्वा उ सण्णिही होति, . सक्कुलितेल्लघयगुला, अविणासी संचइयदव्या ॥१॥ छाया-ओदनगोरसादीनि विनाशिद्रव्याणि तु सनिधयो भवन्ति । शएकुलितैलघृतगुडानि, अविनाशीनि संचितद्रव्याणि ॥१॥ इति । तस्य-द्विविधस्यापि संनिचय एकत्रीकृतसंचयः, तस्मात् सचितात् संचितद्रव्यमध्यात् यत् किमप्येकमनेकंवा वा 'खीरं वा' क्षीरं वा दुग्धं वा 'दर्हि वा' दधि वा 'णवणीयं वा' नवनीतं वा प्रक्षणं 'सप्पि वा' सर्पिर्वा घृतम् 'तेल्लं वा' तैलं वा 'गुलं वा'गुडं वा 'खंडं वा' खण्डं वा 'बुरा' इति लोकप्रसिद्धम् 'सक्करं वा' शर्करां वा-खण्डजातिविशेपं 'मन्छंडियं वा' मत्स्यण्डिकं वा मीसरीतियोकप्रसिद्धम् 'अण्णयरं वा भोयणजायं' अन्यतरद् वा भोजनजातम् , एतदतिरिक्तं वा भोजनजातम् 'पडिग्गाहेइ' प्रतिगृह्णाति 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्यन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।।सू० १८॥ सूत्रम्--जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं उस्सदुपिंडं वा संसट्ठपिंडं वा अणाहपिंडं वा किविणपिंडं वा वणीमगपिंडं वा पठिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥सू० १९॥ छाया-यो भिक्षुः राज्ञ. क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानाम् उत्सृष्टपिण्डं वा संसृष्टपिण्डं वा अनाथपिण्डं वा कृपणपिण्डं वा वनीपकपिण्डं वा प्रतिगृहाति प्रतिगृह्यन्तं वा स्वदते ॥सू० १९॥. चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' इत्यादिराजादीनां 'उस्सट्ठपिंडं वा' उत्सृष्टपिण्डं वा काकादिभ्यः प्रक्षेपणाय स्थापित पिण्डमोदनादिकम्
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy