SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०८ सू०१६-१९ हया दिशालागत राजादीनां भिक्षाहप्रणनिषेधः १९९ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' राज्ञः 'खत्तियाणं' इत्यादि, क्षत्रियादीनाम् पूर्वसूत्रप्रदर्शितस्वरूघाणां 'उत्तरसालंसि वा' उत्तरशालायां वा भ्रमणार्थं निर्मापिता या निजशालातोऽन्या शाला, तस्यां 'उत्तरगिहंसि वा' उत्तरगृहे वा तादृशे गृहे वा 'रीयमाणाणं' रीयमाणानाम् तत्र चंक्रमतां भ्रमणं कुर्वताम् 'असणं वा' इत्यादि, अशनादिकं चतुर्विधधमाहारं 'पडिग्गाहेई' प्रतिगृह्णाति 'पडिग्गार्हतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेSनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १६ ॥ सूत्रम् -- जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं हयसालागयाण वा गयसालागयाण वा मंतसालागयाण वा गुज्झसालागयाण वा रहस्ससालागयाण वा मेहुणसालागयाण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गार्हतं वा साइज्जइ ॥ सू० १७॥ छाया -यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्द्धाभिषिक्तानां हयशालागतानां वा गजशालागतानां वा मंत्रशालागतानां वा गुह्यशालागतानां वा रहस्यशालागतानां वा मैथुनशालागतानां वा अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥सु० १७॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' इत्यादि, राज्ञः क्षत्रियाणाम् मूर्द्धाभिषिक्तानाम् पूर्वनिर्दिष्टस्वरूपाणाम् 'हयसालागयाण वा' हयशालागतानाम् वा अश्वशाला स्थितानाम् 'गयसालागयाण वा' गजशालागतानां वा हस्तिशालास्थितानाम् 'मंतसा - लागयाण वा' मन्त्रशालागतानां वा, यत्र राजादयः स्वपुरुषैः सह मन्त्रणां करोति तादृशशालास्थितानामित्यर्थः ' 'गुज्झसालागयाण वा' गुह्यशालागतानां गुप्तकार्यं यत्र शालायां करोति तादृशशालायां स्थितानाम् 'रहस्ससालागयाण वा' रहस्यशालागतानां वा रहस्यं दण्डविधानादिकार्यं तस्य शालायां स्थितानाम् 'मेहुणसालागयाण वा' मैथुनशा लागतानां वा मैथुनसेवनशालास्थितानाम्, हयादिशालास्थितानां राजादीनां पार्श्वात् 'असणं वा ४' इत्यादि, अशनादिचतुविंधमाहारनातं 'पडिग्गाहेइ' प्रतिगृह्णाति - स्वीकरोति स्वीकारयति वा तथा 'पडिग्गात वा साइज्ज३' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ||सू० १७॥ सूत्रम् - जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं सणिसिण्णिचयाओ खीरं वा दहिं वा णवणीयं वा सप्पि वा तेल्लं वा
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy