________________
चूर्णिभाष्यावद्भिः उ०८ सू० १२-१४ रात्रौ शातकादीनां स्वोपाश्रये संवासननिषेधः १९५ रात्र्य यावत् 'कसिणं वा राई' कृत्स्नां संपूर्णाम् यामचतुष्टयरूपां सम्पूर्णा वा रात्रिं यावत् 'संवसावेई' संवासयति उपाश्रये वासं स्थिति कारयति, 'अत्र वसतौ संवासं कुरु हे आर्य ! इत्येवं वदति 'संवसावेंतं वा साइज्जई' संवासयन्तं वा स्वदते, यः खलु स्वजनमस्वजनं वा श्रावकमश्रावकं वा स्वेन सार्द्ध वसतिमध्ये अद्धा वा रात्रिं सम्पूर्णा वा रात्रिं यावत् संवासयति तथा संबासयन्तमन्यमनुमोदते स प्रायश्चित्तभागी भवति, उपाश्रये संवसन् स रात्रिभोजनं करोति, सचित्तनलं वा पिबति, अन्यं वा आरम्भसमारम्भं करोति, तस्मात्कारणात् ज्ञातकादिकमुपाश्रये न संवासयेत् तस्य संवासने साधोराज्ञाभङ्गादिकाश्चापि दोषाः समापतन्ति ॥ सू० १२॥
भवाह भाष्यकारःभाष्यम् - णायगमणायगं वा, सावगं वा तहेयरं ।
वसहीए वासए राओ, आणाभंगाइ पावइ ॥ छाया-ज्ञातकमज्ञातकं वा श्रावकं वा तथेतरम् ।
वसतौ वासयेद् रात्रौ, आज्ञाभङ्गादि प्राप्नुयात् ॥ अवचूरिः--यो भिक्षुः अर्द्धरात्रि वा संपूर्णरात्रि वा वसतौ उपाश्रयस्य मध्ये ज्ञातकं स्वकी यज्ञातिजनं परिचितं वा अज्ञातकं-ज्ञातिभिन्नमपरिचितं वा, तथा श्रावक-जिनधर्मोपासकं गृहस्थं वा अनुपासकम् अन्यतैर्थिक वा स्वोपाश्रये यत्र स्वयं तिष्ठति तत्र वासयति । यदि कश्चित् श्रमणस्य स्वजनोऽस्वजनः परिचितोऽपरिचितः श्रावकोऽश्रावको वा रात्रौ वस्तुं समुपस्थितो भवेत् तं श्रमणो रात्रौ तत्र वासयेत् वासयन्तं वाऽनुमोदते स आज्ञाभङ्गादिकान् दोषान् प्राप्नुयात् ।।
अथ कारणेऽपवादमाह भाष्यकारःभाष्यम्-दिक्खट वा दयटुं वा पोसहहं समागयं ।।
कासेइ रयणिं तस्स, न दोसो किं तु संवरो ॥१॥ छाया-दीक्षार्थ वा दयार्थ वा पौषधार्थ वा समागतम् ।
वासयति रजनीं तस्य न दोषः किन्तु संवरः ॥१॥ अवचूरिः-यः कश्चित् श्रमणः दीक्षार्थ पौषधाथै पौषत्रताचरणार्थ उपलक्षणात् ग्लानादिनिमित्तं समागतं वयं श्रावकं वा यदि रात्री स्ववसती वासयति तदा तस्य रात्री वसतिवासदानेऽपि न कश्चिदोषः प्रत्युत संवर एव भवति, यतः स संवासः सकलसावधकर्मपरित्यागगर्भितो भवति तादृशवासस्य संवरसंपादकत्वात् , तस्मात् तादृशस्य वसतिवासो दातव्य एवेति भावः। तमपि स्वसमीपात् षड्हस्तं दूरे संवासयेत् येन गृहस्थस्य शरीरवस्त्रादिना स्वस्य शरीरवस्त्रादेः संधट्टनं न स्यात् । यदि षड्हस्ताभ्यन्तरे तं संवासयति तदा स साधुः प्रायश्चित्तभागी भवति ॥