________________
चूर्णिभाष्यावरिः उ०७ सू०८५-९०
मातृग्रामप्रकरणम् १८५ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नयरं पसुजायं वा पक्खिजायं वा 'अयमित्थि-त्ति कटु आलिंगेज्ज वा परिस्सएज्ज वा परिचुंबेज्ज वा आलिंगंत वा परिस्सयंतं वा परिचुंबतं वा साइज्जइ ८५
- छाया- यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिशया अन्यतरं पशुजातं वा पक्षिजातं वा 'इयं स्त्री-'ति कृत्वा आलिङ्गयेद्वा परिष्वजेत् वा परिचुम्बेत् वा आलिङ्गन्तं वा परिष्वनमानं परिचुम्वन्तं वा स्वदते ॥सू०८५॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अन्नयरं पसुनायं वा अन्यतरं पशुनातं वा 'पक्खिजायं वा' पक्षिजातं वा 'अयमित्थि'-त्ति कटु अयम् पशुः पक्षी वा 'त्री इति' स्त्रीबुद्धि तेषु कृत्वा 'आलिंगेज्ज वा' आलिङ्गयेद्वा-आलिङ्गनं कुर्यात् 'परिस्सएज्ज वा' परिष्वजेत वा परिष्वजनं विशेषतः आलिङ्गनम् 'परिचुंवेज्ज वा' परिचुम्वेत् वा मुखेन चुम्बनं कुर्यात् 'आलिगंतं वा' आलिङ्गन्तं वा 'परिस्सयंतं वा' परिष्वजमानं वा 'परिचुंबतं वा' परिचुम्बन्तं वा 'साइज्जइ' स्वदतेऽनुमोदते । स प्रायश्चित्तभागी भवति ॥ सू० ८५ ॥
सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए असणं वा पाणं वा खाइमं वा साइमं वा देइ देंतं वा साइज्जइ ।। सू० ८६॥
छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिशया अशनं वा पानं वा खाद्य वा खाद्य वा ददाति ददतं वा स्वदते ॥सू० ८६॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया अशनं वा पानं वा खाद्यं वा स्वायं वा चतुर्विधमाहारजातं स्त्रिय 'देइ' ददाति 'देतं वा' ददतं वा 'साइज्जइ' स्वदतेऽनुमोदते । यः कश्चित श्रमणो मातृग्रामस्य मैथुनसेवनेच्छया स्त्रिये अशनादिकं ददाति दापयति ददतं वा अनुमोदयति स प्रायश्चित्तभागी भवति ॥ सू० ८६ ॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छइ पडिच्छंतं वा साइज्जइ ।। सू० ८७॥
छाया-यो भिक्षुर्मातृग्रामस्थ मैथुनप्रतिज्ञया अशनं वा पानं वा स्वाद्य वा वाद्य वा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥सू० ८७॥
चूर्णी:-'जे भिक्खू' इत्यादि । यो भिक्षुमैथुनसेवनेच्छया चतुर्विधमाहारजातं प्रतीच्छति गृह्णाति प्रतीच्छन्तं वा गृह्णन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० ८७॥
२१