________________
M
vwww
wwwww
चूर्णिमाष्यावचूरिः उ० ७ सू ८०-८४ रजोहरणस्यानुचितबन्धनिषेधः १८३
छाया-यो भिक्षुर्मातग्रामस्य मैथुनप्रतिक्षया अन्यतमां चिकित्सां आवर्त्तयति आवत्यन्त वा स्वदते ॥सू० ८०॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अण्णतरं तेइच्छं' अन्यतमा चिकित्सा, तत्रान्यतमा नाम-चतुर्विधासु चिकित्सासु एकां काश्चित् चिकित्साम् , ताश्चतस्रो यथावातिकी १, पैत्तिकी २, श्लैष्मिकी ३, सांनिपतिकी ४, तासु एकां काश्चित् चिकित्सां रोगोपचाररूपाम् 'आउटई' आवर्त्तयति कारयति 'आउटुंतं वा साइज्जई' आवर्तयन्तं कारयन्तं वा स्वदतेऽनुमोदते सा प्रायश्चित्तभागी भवति ॥ सू० ८० ॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अमणुन्नाइं पोग्गलाई नीहरेइ नीहरेत वा साइज्जइ ॥ सू०.८१ ॥
छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिज्ञया अमनोज्ञान् पुद्गलान् निर्हरति निर्हरन्तं वा स्वदते ॥सू० ८१॥ __ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया -मैथुनवाञ्छया 'अमणुन्नाई पोग्गलाई' अमनोज्ञान पुद्गलान् शरीरस्थान् अशुचिदुर्गन्धिपुद्गलान् 'नीहरेइ' निर्हरति-निष्कासयति 'नीहरेंतं वा साइज्जई' निर्हरन्तं वा शरीरादिभ्योऽमनोज्ञपुद्गलान् निष्कासयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८१॥
जे भिक्खू माउग्गामस्स मेहुणवडियाए मणुन्नाई पोग्गलाई उवकिरइ उवकिरतं वा साइज्जइ ॥ सू०८२॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया मनोशान् पुनलान् उपकिरति उपकिरन्तं वा स्वदते ॥सू० ८२॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चित् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'मणुन्नाई पोग्गलाई मनोज्ञान पुद्गलान् मनस आल्हादजनकान् शरीरोपचयकारकान् वा पुद्गलान् शरीरे 'उवकिरई' उपकिरति प्रक्षिपति, अयं भावः-स्वशरीरे स्त्रीशरीरे वा स्वकीयवस्त्रे स्त्रीवस्ने वा स्ववसतौ श्रीवसतौ वा मनोहराणि चन्दनादिसुगन्धिद्रव्याणि प्रक्षिपति येन शरीरादिकं सुगन्धियुक्तं भवति, तथा 'उवकिरंत वा' उपकिरन्तमन्यं वा 'साइज्जइ' स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ८२ ॥