________________
૮૨
निशीथसूत्रे
-यो भिक्षुर्मातृग्रामस्थ मैथुनप्रतिज्ञया अङ्के वा पर्यङ्के वा निधीदयेत्. वा
छाया
त्वग्वर्तयेत् वा निषीदयन्तं वा त्वग्वर्तयन्तं वा स्वदते ॥ सू० ७८ ॥
-
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अंकंसि वा' अङ्के वा स्वकीयोत्सङ्गे 'पयिसिवा' पर्यके वा, तत्र पर्यङ्कः 'मंच' 'पलंग' इति भाषाप्रसिद्धः, तदुपरि 'णिसीया - वेज्ज वा' निषीदयेत् वा उपवेशयेत् 'तुयट्टावेज्ज वा' त्वग्वर्तयेत् वा-शयनं कारयेत् 'णिसीयावेंत वा' निपीदयन्तं वा उपवेशयन्तं वा 'तुयट्टावेतं वा' स्वग्वर्तयन्तं वा शाययन्तं वा 'साइज्जइ' स्वदते अनुमोदते । यो भिक्ष मैथुनसेवनेच्छया स्त्रियं स्वाङ्के पर्यङ्के वा उपवेशयति वा शाययति वा तथा स्वाके उपवेशयन्तं वा शाययन्तं वा श्रमणमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोपा भवन्ति ॥ सू० ७९ ॥
सूत्रम् - जे भिक्खू माउग्गामस्स मेहुणवडियाए अंकंसि वा पलियंकंसि वा णिसीयावेत्ता वा तुयट्टावेत्ता वा असणं वा पाणं वा खाइ वा साइमं वा अणुग्धासेज्ज वा अणुपाएज्ज वा अणुग्धासंतं वा अणुपाएतं वा साइज्जइ ॥ सू० ७१ ॥
छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया भने वा पर्यङ्के वा निषद्य त्वग्वर्तयित्वा अशनं वा पानं वा खाद्यं वा स्वाद्य वा अनुग्रासयेद्वा अनुपाययेद्वा अनुग्रासयन्तं वा अनुपाययन्तं वा स्वदते ॥सू० ७९ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिंद्र भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अंकसि वा' अहे वा 'पलियंकंसि वा' पर्यङ्के वा 'णिसीयावेत्ता वा' निषद्य 'तुयट्टावेत्ता वा' त्वग्वर्तयित्वा वा अशनं वा पानं वा स्वाद्यं वा स्वाद्यं वा 'अणुग्घासेज्ज वा' अनुग्रासयेद्वा 'अणुपाएज्ज वा' अनुपाययेद् वा 'अणुग्धासंत वा' अनुग्रासयन्तं वा 'अणुपाएंतं वा' अनुपाययन्तं वा अन्यम् 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्व संयमवि राधनात्मविराधनादिदोषा भवन्ति ॥ सू० ७९ ॥
सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए अण्णतरं तेइच्छं आउट्टइ आउट्टंतं वा साइज्जइ ॥ सू०८० ॥
#