________________
निशीथसूत्रे
१८०
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गास्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथुनवाञ्छया 'कोलावासंसि वा' कोलावासे वा, तत्र कोला:घुणाः काष्ठगताः काष्ठक्षतिकारका जीवविशेषाः 'धुण' इति लोकप्रसिद्धाः, तेषां कोलानां य आवासः स्थानं तत्र वा 'दारुए वा जीवपइदिए' दारुके वा जीवप्रतिष्ठिते यस्मिन् काष्ठे जीवा विद्यमाना भवेयुः तादृशमत्कुणादिजीवविशिष्टपीठफलकादिके 'सअंडे' साण्डे पिपौलकाधण्डसहिते स्थाने काष्ठे वा 'सपाणे' सप्राणे क्षुद्रद्वीन्द्रियादिप्राणियुक्तस्थाने 'सवीए' सबीजे शाल्यादिसचित्तबीजयुक्तस्थाने 'सहरिए' सहरिते हरितकायसहितस्थाने 'सओसे' सावश्याये-सूक्ष्महिमकणसहितस्थाने 'सउत्तिंग' सउत्ति), उत्तिङ्गकाः-भूमौ वर्तुलविवरकारिणो गर्दभमुखाकृतयः कीटविशेषाः, यद्वा कीटिकानगरादयः, तैः सहिते स्थाने 'पणग' पनकः-अङ्करितो अनङ्कुरितो वा पञ्चवर्णानन्तकायविशेषः 'फुलण' इति भाषाप्रसिद्धः 'दगमट्टिय' उदकमृत्तिका सजलपृथिवीकायः 'मक्कडासंताणगंसि' मर्कटसन्तानकः खताजालम् , तस्मिन्, एतेषु पूर्वोक्तघुणादियुक्तस्थानेषु यः श्रमणः स्त्रियं 'णिसीयावेज्ज वा' निषीदयेत्उपवेशनं कारयेत् , 'तुयद्यावेज्ज वा त्ववर्तयेद्वा पार्श्वपरिवर्तनं कारयेसू तथा 'निसीयावेतं वा' निषीदयन्तम् उपवेशयन्तं वा 'तुयट्टावेतं वा त्वग्वर्तयन्तं वा शाययन्तं वा 'साइज्जई' स्वदतेऽनुमोदते । यो भिक्षुमातृप्रामस्य मैथुनेच्छया सूत्रोक्तस्थानेषु स्त्रियमुपवेशयति शाययति वा, उपवेशयन्तं शाययन्तं वा अनुमोदते सप्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ।।२०७५॥ ___ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए आगंतागारेसु वा आरामागरेसु वा गाहावइकुलेसु वा परियावसहेसु वा णिसीयावेज्ज वा तुयट्टावेज्ज वा णिसीयावेतं वा तुयटूटावेतं वा साइज्जइ ॥ सू०७६॥
छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिशया आगन्त्रागारेषु वा आरामागारेषु घा गाथापतिकुलेपु वा परिव्राजकावसथेषु वा निषीदयेद्वा त्वग्वर्तयेद्वा निषीदयन्तं वा त्वग्वर्तयन्तं वा स्वदते ॥ सू • ७६ ॥ ।
चूर्णी-जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'आगंतागारेमु वा' आगन्त्रागारेषु वा .आगन्तॄणाम् आगन्तुकानां गमनागमनसमये विश्रामार्थकारितेषु गृहेषु धर्मशालेतिप्रसिद्धेषु वा 'आरामागारेसु वा' आरामागारेषु वा क्रीडाकरणाय उपवनगृहेषु 'गाहावइकुलेसु वा' गाथापतिकुलेपु वा- गृहस्थगृहेषु 'परियावसहेषु वा' परिव्राजकावसथेषु वो तापसनिवासस्थानेषु वा 'णिसीयावेज्ज वा' निषीदयेत् वा उववेशयेत् 'तुयट्टावेज्ज वा' त्वग्वर्तयेद्वा शाययेत् 'णिसीयात्रेते वा निपीदयन्तं वा 'तुयटात वा त्वग्वर्तयन्तं वा शयनं कारयन्तम् 'साइज्जई'