SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावद्भिः उ.७ सु. ६८-७६ मातग्रामप्रकरणम् १७९ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अणंतरहियाए पुढवीए णिसीयावेज्ज वा तुयहावेज्ज वा णिसीयावेतं वा तुयट्टावेत वा साइज्जइ सू० ६८॥ छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिज्ञया अनन्तरहितायां पृथियां निषीदयेत् वा त्वग्वर्तयेद्वा निषीदयन्तं वा त्वग्वर्तयन्तं वा स्यदते ॥सू० ६८॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'अणंतरहियाए पुढवीए' अनन्तरहितायां पृथिव्याम् तत्र अनन्तरहिताया शीतवातादिशस्त्रेरनुपहतायां सचित्तायाम् , पृथिव्याम् तथा चैतादृशसचित्तभूमौ यो भिक्षुर्मैथुनसेवनेच्छया अत्र 'स्त्रियं' इति गम्यते ततः लियमित्यर्थः 'णिसीयावेज्ज वा' निषीदयेद्वा उपवेशयेत् 'तुयहावेज्ज वा' त्वग्वर्तयेद्वा-पार्श्वपरिवर्तनं कारयेत् स्वापयेद् वा इत्यर्थः तथा 'णिसीयावेतं वा निषीदयन्तं वा उपवेशनं कारयन्तम् 'तुयावेत वा' त्वग्वर्तयन्तं वा पार्श्वपरिवर्तनं कारयन्तम् 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ६८|| एवं पूर्वोक्तसूत्रक्रमेण यो भिक्षुर्मातृप्रामस्य मैथुनेच्छ्या स्त्रियं 'ससणिद्धाए पुढवीए' सस्निग्धायां-सचित्तजलेन ईपदार्टायां पृथिव्याम् ॥सू० ६९॥ ससरक्खाए पुढवीए' सरजस्कायां सचित्तरजोऽवगुण्ठितायां पृथिव्याम् ॥सू० ७०॥ 'मट्टियाकडाए पुढवीए' मृत्तिकाकृतायां सचित्त मृत्तिकानिर्मितायां पृथिव्याम् ॥सू० ७१॥ 'चित्तमंताए पुढवीए' चित्तवत्यां स्वभावतः-सचित्तायां खनिरूपायां पृथिव्याम् ॥सू० ७२।। 'चित्तमंताए सिलाए' चित्तवत्यां सचित्तायां खनितः सद्यो निष्कासितायां शिलायाम् ॥सू० ७३॥ 'चित्तमंताए लेलुए' चित्तवति सचित्ते लेलुके-लोष्टरूपे पृथिवीखण्डे, एतेषु पूर्वप्रदर्शितेषु स्थानेषु स्त्रियम्, 'निसीयावेज्ज वा निषीदयेत् वा उपवेशयेत् 'तुयट्टावेज्ज वा' त्वम्वर्तयेत् वा पार्श्वपरिवर्तनं कारयेत् शाययेत्- वा तत्र शयनं कारयेद्वा, एवं कारयन्तमन्यं वाऽनुमोदयेत् स प्रायश्चित्तभागी भवति ॥ सू० ७४ ।। सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए कोलावासंसिवा दारुए वा जावपइट्ठिए, सअंडे सपाणे सबीए सहरिए सओसे सउदए सउत्तिंग-पणग-दगमट्टिय-मक्काडासंताणगंसि णिसीयावेज्जवा तुयटावेज्ज वाणिसीयावेतं वा तुयथावतं वा साइज्जइ ।। सू०७५ ॥ ___छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिशा कोलावासे वा दारुके वा जीवप्रतिठिते साण्डे सप्राणे सवीजे सहरिते सावश्याये सोदके सोत्तिङ्गपनकदकमृत्तिकामर्कटसन्तानके निपीदयेत् वा त्वग्वर्तयेद्वा निषीदयन्तं वा त्वग्वर्तयन्तं वा स्वदते ॥सू०७५।।
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy