________________
चूर्णिभाष्यावद्भिः उ०७ सू० ११-६७ ...
मातग्रामप्रकरणम् १७७ तानि यः करोति 'कोयरपाउराणि वा' कोयरप्रावरणानि वा कोयरस्य वस्त्रविशेषस्य यानि प्रावरणानि आच्छादनानि करोति 'गोरमियाणि वा' गौरमृगाणि वा श्वेतमृगचर्माणि तच्चर्मनिर्मितवस्त्राणीत्यर्थः 'कालमियाणि वा' कालमृगाणि वा-कालमृगचर्माणि, तत्र कालमृगः-कृष्णमृगः तस्य यानि चर्माणि तेषां वस्त्राणि यः करोति 'णीलमियाणि वा' नीलमृगाणि वा-नील. मृगचर्माणि 'सामाणि वा' श्यामानि वा-श्याममृगचर्माणि 'महासामाणि वा' महाश्यामानि वाअतिशयितश्याममृगचर्माणि 'उट्टाणि वा' उष्ट्राणि वा उष्ट्रस्य यानि चर्माणि तानि वस्त्ररूपाणि यः करोति 'उदृलेस्साणि वा' उष्ट्रलेश्यानि वा उष्ट्रचर्मणः प्रावरणानि, 'वाग्याणि वा' व्याघ्राणि वा-व्याघ्रसम्वन्धिचर्मवस्त्राणीत्यर्थः, 'विवग्याणि वा' विव्याघ्राणि वा-विव्याघ्रः 'चित्ता' इति प्रसिद्धः, तत्सम्बन्धिचर्माणि चर्मवस्त्राणि 'पलवंगाणि वा' प्लवङ्गानि वा तत्र प्लवङ्गः-वानरः तस्य चर्माणि 'सहिणाणि वा' सहिनानि वा--लक्ष्णानि, तत्र सहिनानि श्लक्ष्णानि श्लक्ष्णवस्त्राणि यः करोति 'सहिणकल्लाणि वा' सहिनकल्यानि तत्र सहिनानि लक्ष्णानि कल्लानि स्निग्धानि कोमलानि कोमलत्वलक्षणयुक्तानि वा वस्त्राणि करोति 'दुगुल्लाणि वा' दुकूलानि वा, तत्र दुकूलानि कार्यासिकानि वस्त्राणि 'पडलाणि वा' पटलानि वा 'चीणाणि वा' चीनानि वा चीनदेशोद्भवानि वस्त्राणि 'अंसुयाणि वा' अंशुकानि वा कीटनवस्त्राणि 'रेशम' इति प्रसिद्धवस्तुवस्त्राणि वा 'कणगकताणि वा' कनककान्तानि वा, तत्र कनकं सुवर्ण तत्सदृशकान्तियुक्तानि वस्त्राणि 'कणगखचियाणि वा' कनकखचितानि वा-कनकजटितानि वस्त्राणि 'कणगचित्ताणि वा' कनकचित्राणि वा कनकेन सुवर्णेन चित्रितानि वस्त्राणि 'कणगविचित्ताणि वा' कनकविचित्राणि कनकेन विचित्रप्रकारकाणि वस्त्राणि 'आभरणाणि वा-आभरणानि अलंकारयुक्त वस्त्राणि 'आभरणचित्ताणि वा' भाभरणैरलंकारैचित्रितानि 'आभरणविचित्ताणि वा' आभरणविचित्राणि वा विचित्रप्रकारकाभरणमण्डिताति वस्त्राणि, एतादृशानि उपयुक्तानि चर्मादीनां वस्त्राणि यो भिक्षुर्मैथुनसेवनेच्छया 'करेइ' करोति 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदते ॥ सू० ११ ॥
एवम् पूर्वसूत्रोक्तवस्त्रविषये 'धरेई' 'परि जइ' इति सूत्रद्वयमपि बोध्यम् ॥१२॥ सू० १३ ॥
सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए इत्थिं अक्खंसि वा उरंसि वा उयरसि वा थणसि वा गहाय संचालेइ संचालतं वा साइज्जइ ॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया स्त्रियम् अक्षे वा उरसि वा उदरे वा स्तने वा गृहीत्वा संचालयति संचालयन्तं वा स्वदते ॥ सू० १४ ॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथनप्रतिज्ञया-मैथुनवाञ्छया 'इत्थि' स्त्रियम् 'अक्खसि वा' अक्षे