________________
१७६
निशीथसूत्रे
प्रलम्बसूत्राणि वा सुवर्णनिर्मितानि लम्बायमानानि सूत्राणि तानि 'मुवण्णसुत्ताणि वा' सुवर्णसूत्राणि वा - सुवर्णस्य सूत्र विशेषलक्षणानि 'करेड़' करोति, एतानि हारादिकानि मातृग्रामस्य मैथुनसेवनेच्छया स्वयं संपादयति परद्वारा कारयति वा तथा 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदतेऽनुमोदते ॥ सू० ८ ॥
एवं पूर्वोक्तवस्तुविषये 'घरेह' 'परिभुंजह' इति सूत्रद्वयमपि पूर्ववद् व्याख्येयम् ॥ सू० ९-१० ॥
मूलम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए आईणाणि वा आईणपाउराणि वा कंबलाणिवा कंबलप । उराणि वा कोयराणि वा कोयरपाउराणि वा गोरमियाणि वा कालमियाणि वाणील - मियाणि वा सामाणि वा महासामाणि वा उट्टाणि वा उट्टलेस्साणि वा वग्धाणि वा विवरघाणि वा पलवंगाणि वा सहिणाणि वा सहिणकल्लाणि वा खोमाणि वा दुगुल्लाणि वा तिरीडपट्टाणि वा पतुलाणि वा पडलाणि वा चीणाणि वा असुयाणि वा कणगकंताणिवा कणगखचियाणि वा कणगचित्ताणि वा कणगविचित्ताणि वा आभरणाणि वा आभरणचित्ताणि वा आभरणविचित्ताणि वा करेइ करेंतं वा साइज्जइ ॥ सू० ११ ॥
छाया -यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया आजिनानि वा आजिनप्रावरणानि वा कंबलान् वा कम्बलप्रावरणानि वा कोयराणिवा कोधरप्रावरणानि गौरमृगाणि वा कालमृगाणि वा नीलमृगाणि वा श्यामानि वा महाश्यामानि वा उष्ट्राणि वा उष्ट्रलेश्यानि वा व्याघ्राणि वा विव्याघ्राणि वा प्लवङ्गानि वा श्लक्ष्णानि वा श्लक्ष्णकल्यानि वा क्षौमाणि वा दुकूलानि वा तिरीटपट्टानि वा प्रतुलानि वा पटलानि वा चीनानि वा अंशुकानि वा कनककान्तानि वा कनकखचितानि वा कनकचित्राणि वा कनकविचित्राणि वा आभरणानि वा आभरणचित्राणि वा आभरणविचित्राणि वा करोति कुर्वन्तं वा स्वदते ॥ सू० ११ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया - मैथुनवान्च्या 'आईणाणि वा' आजिनानि वा - मृगचर्मवस्त्राणि 'आईणपाउराणि वा' आजिनप्रावरणाणि वा, तत्राजिनं मृगचर्म तस्य प्रावरणाणि - आच्छादनानि यः करोतीत्यग्रिमेण सम्बन्धः, 'कंवलाणि वा' कम्बलान्, तत्र कम्बला ऊर्णादिनिर्मितास्तान् 'कंचलपाउराणि वा' कम्बलप्रावरणानि वा, तत्र कम्बलस्य प्रावरणानि आच्छादनानि तानि यः करोति तथा 'कोयराणि वा' कोयराणि वा, तत्र कोयराणि कोयरदेशनिष्पन्ना वस्त्र विशेषाः