________________
॥ सप्तमोद्देशकः ॥
(मातृग्रामप्रकरणम् )
व्याख्यातः षष्ठोद्देशकः, सांप्रतमवसर प्राप्तः सप्तमोद्देशको व्याख्यायते, अस्य सप्तमोद्देशकीत्यादिसूत्रस्य षष्ठोदेशकान्तिमसूत्रेण सह कः सम्बन्धः ? इति चेद् अत्राह भाष्यकारः
भाष्यम् – अंतो भूसणमाहारो, बाहिं भूसा उ मालिया । इणमो चेव संबंधो, छट्ठेण सत्तमस्स उ ॥
छाया - अन्तर्भूषणमाहारो बाह्यभूषा तु मालिका । अयमेव हि सम्बन्धः षष्ठेन सप्तमस्य तु ॥
अवचूरि : - 'अंतो भूसणमाहारो' इत्यादि । ' आहारः' दुग्धदध्यादिविकृतिपदार्थाना - माहारो अन्तर्भूषणम् । मालिका - पुष्पमालादिकं तु बाह्यभूषणं साधूनां प्रतिषिद्धम्, अयमेव सम्वन्धः षष्ठेन - षष्ठान्तिमसूत्रेण सह सप्तमोद्देशकादिसूत्रस्य भवतीति । अयं भावः - षष्ठोदेशकस्योपान्त्य सूत्रे 'जे भिक्खू माउग्गामस्त मेहुणवडियाए खीरं वा' इत्यादिविकृत्याहारस्य प्रतिषेधः कृतः, अत्र तु सप्तमोद्देशकादिसूत्रे मालिकानां प्रतिपेधः क्रियते यतो मा भवतु साधोर्बाह्यभूषणम् इति बाह्याभ्यन्तरभूषणप्रतिषेघस्य समानत्वात् षष्ठोद्देशकानन्तरं सप्तमोद्देशकस्य निरूपणं क्रियते, अयं - मेव सम्बन्धः पूर्वापरसूत्रयोर्भवति । तदनेन सम्बन्धेनायातस्य सप्तमोद्देशकस्य प्रथमं सूत्रं प्रस्तूयते'जे भिक्खू' इत्यादि ।
सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए तणमालियं वा मुंजमालियं वा वेत्तमालियं वा मयणमालियं वा पिछमालियं वा दंतमालियं वा सिंगमालियं वा संखमालियं वा हड्डमालियं वा कट्टमालियं वा पुप्फमालियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा करेइ करें वा साइज्जइ ॥ सू० १ ॥
छाया- यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया तृणमाणिकां वा मुञ्जमालिकां वा वेत्रमालिकां वा मदनमालिकां वा पिच्छमालिकां वा दन्तमालिकां वा शृङ्गमालिका वा शङ्खमालिकां वा अस्थिमालिकां वा काष्ठमालिकां वा पत्रमालिकां वा पुष्पमालिकां वा फलमालिकां वा बीजमालिकां वा हरितमालिकां वा करोति कुर्वन्तं वा स्वदते ॥सू० १ ॥
चूर्णी - 'जे भिक्खू' यः कश्चिद भिक्षुर्निरवद्यभिक्षणशीलः श्रमणः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनदाञ्छया 'तणमालियं वा' तृणमालिकां वा वीरणादितृणजनित