________________
१७०
निशीथसूत्रे छाया-यो भिक्षुर्मातृग्रामस्य मथुनप्रतिक्षया क्षीरं वा दधि वा नवनीतं वा सपि र्धा गुडं वा खण्डं वा शर्करा वा मत्स्यण्डिकां वा अन्यतरं प्रणीतमाहारमाहरति आहरन्तं वा स्वदते ॥सू० २६॥
चूर्णी-जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः 'माउगामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'खीरं वा' क्षीरं वा दुग्धम् गवादीनां दुग्धम् 'दर्हि वा' दधि वा 'णवणीयं वा' नवनीतं वा 'मक्खन' इति लोकप्रसिद्धम् 'सप्पि वा' सर्पिघृतं वा 'गुलं वा' गुडं वा 'खडं वा' खण्ड वा 'खांड' 'चीनी' इति लोकप्रसिद्धम् 'सक्करं वा' शर्करां वा 'बूरा' इति प्रसिद्धाम् ‘मच्छंडियं वा' मत्स्यण्डिका वा मिसरीति लोकप्रसिद्धाम् 'अन्नयरं वा पणीयं अन्यतरं वा प्रणीतम् मरसम् 'आहार' आहारम् 'आहरेई' आहरति दुग्धादिविकृतीनां भोजनं करोति । अयं भावः-विवर्णः शरीरदुर्वलः श्रमणः दुग्धादीनां भोजनादुपचितशरीरः सुकुमारशरीरः कामिनीनां कमनीयः स्यामिति बुद्ध्या दुग्धाद्यन्यतमं विकृतीनां भोजनं करोति सः, तथा 'आहात वा साइज्जई' आहरन्तं वा स्वदते अनुमोदते यः सोऽपि प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति सू० २६॥
सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्धाइयं ति ॥ सू० २७॥
छाया-तत् सेवमान आपद्यते चातुर्मासिक परिहारस्थानमनुद्घातिकमिति ॥२७॥
चूर्णी-'त सेवमाणे' इत्यादि । 'तं सेवमाणे तत् सेवमानः षष्ठोदेशकस्य 'जे भिक्खू माउग्गामस्स मेहुणवडियाए विण्णवेइ विण्णवेत वा साइज्जई' इति प्रथमसूत्रादारभ्य 'जे भिक्खू माउग्गामस्स मेहुणवडियाए खीरं वा' एतत्सूत्रपर्यन्तं कथितं प्रायश्चित्तस्थानं सर्व, तथा अन्यतममपि प्रायश्चित्तस्थानं सेवमानः तस्य प्रतिसेवनां कुर्वन् भिक्षुः 'आवज्जइ' आपद्यते प्राप्नोति 'चाउम्मासिय परिहारहाणं अणुग्याइयं' चातुर्मासिकं परिहारस्थानमनुद्घातिकम् गुरुचातुर्मासिकं प्रायश्चित्तमापद्यते इति भावः ॥ सू० २७|| इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य"
चूर्णिभाष्यावचूरिरूपायां व्याख्यायां पष्ठोद्देशकः समाप्तः ॥६॥