________________
निशीथयो "चूर्णी-'जे भिक्खू' इत्यादि। 'जे भिक्खू यः कश्चिद् भिक्षुः 'सणकप्पासाओ 'वा' शणकार्पासात् शणसूत्रात् 'शणं' लोकप्रसिद्धम् "उण्णकप्पासायो वा' ऊर्णाकार्पासादा- अजोट्रादीनाम्-ऊर्णासूत्रेणेत्यर्थः, पोंडकप्पासाओ वा' पोडकार्पासाद्वा-वनजातकार्यासेनेत्यर्थः, 'अमिलकप्पासाओ वा' अमिलकार्पासाद्वा कार्पासविशेषात् , कर्तितशणादिसूत्रेणेत्यर्थः दीहमुत्ताई करेइ' दीर्धसूत्राणि करोति शणादिसूत्रेण दीर्घसूत्राणि वस्त्रान्तभागस्थितस्त्राणि दीर्घाणि संपादयतीत्यर्थः तथा "करेंतं वा साइज्जई' कुर्वन्तं वा स्वदते स प्रायश्चित्तमागी भवति, तथा तस्याज्ञामङ्गादिका दोषा भवन्ति । एवं शणादिना सूत्राणि संपादयतः श्रमणस्य सूत्रार्थयोनिभवति । यस्मात् दीर्घसूत्रनिर्माणे एव समयस्य व्यतीयमानत्वात् स्वाध्यायार्थ 'समय एव न मिलति, इत्येवं क्रमेण सूत्रार्थयोविस्मरणं जायते । एवं यदि कश्चित् श्रावकादि दीर्घसूत्रं कुर्वतं साधु पश्यति तदा 'दीर्घसूत्रनिर्माण गृहिणां कर्म' इति कृत्वा तस्य श्रमणस्य शासनस्य च लघुता भवति । एवं तेषु दीर्घसूत्रेषु शुषिरभागे मशकादिजीवानां विनाशोपि जायते इति संयमविराधनमपि भवति ।। । यस्मात् कारणात् दीर्घसूत्रनिर्माणे एते उपर्युक्ता दोषा भवन्ति तस्मात् कारणात् श्रमणः स्वयं दीर्घसूत्रनिर्माण न कुर्यात् न वा दीर्घसूत्राणि कुर्वन्तमनुमोदयेदिति । दीर्घसूत्रार्थ यन्त्रादिचालनमावश्यक ततश्च यन्त्रचालनेन वायुकायिका जीवा विनश्यन्ति ततश्च संयमविराधनम् , संयतास्तु वायुविराधनापेक्षया खात्मविराधनमेव वरमिति मन्यन्ते, वायुकायिकविराधने घटकायानामपि-विराधनं संभवति तेन संयमविनाशः, संयमविनाशे च सर्वेषां महाव्रतानां विराधनमप्यापधेत, उक्तं च आचारागसत्रेप्रथमाध्ययने सप्तमोद्देशके प्रथमसूत्रे-इह संतिगया दविया रणावखंति जीविउं' इति । इह शान्तिगताः शान्तिमग्नाः द्रविकाः द्रवः--संयमस्तद्वन्तः कर्मनिवारणशीलाः संयमिनः जीवितुम् व्यजनादिना वायुकायिकस्य 'विराधनेनप्राणान् धारयितुं नावकाङ्क्षन्ति नेच्छन्ति–इत्यर्थः । यस्तु एकजीवविराधनं करोति स पण्णामपि विराधनं करोति । उक्तं चाचारागसूत्रे द्वितीयाध्ययने षष्ठोदेशके द्वितीयसूत्रे-'सिया तत्थ एगयरे विप्परामुसइ छसु अन्नयरंमि कप्पई' स्यात्तत्रैकतरं विपरामशति षट्सु अन्यतरस्मिन् कल्पते, इति छाया । अयं भावः-एककायविराधनायां सत्यां षट्काय विराधना भवति, विस्तरतस्तु तत्रैव विलोकनीयम् । एवं ध्वनिवर्धकयंत्रे (लाउडस्पीकर) इति संपतिकालप्रसिद्ध व्याख्यानादिकरणे पटकायविरा धनं भवतीति, तत्र वायुकायविराधनात् । एवं दीर्घसूत्रनिर्माण वायुकायिकविराधनासंभवात् सूत्रे दीर्घसूत्रकरणस्य निषेधः कृत इति, तस्मात् वायुकायरक्षणार्थ यतना कर्तव्या, अकरणे प्रायश्चित्तप्रसंगात् ।। सू० २५ ॥
सूत्रम्-जे भिक्खू सचित्ताई दारुदंडाणि वा वेणुदंडाणि वा वेत्तदंडाणि वा करेइ करेंतं वा साइज्जइ ॥ सू० २६ ॥