________________
चूर्णिभाष्यावचूरिः उ. ५ सू० २४-२५
दीर्घसूत्रकरणनिषेधः १५५, करोति, तथा 'अहिडेतं वा साइज्जई' अधितिष्ठन्तं वा त्वदते । यो हि आनीतं शय्यांसंस्तारक श्रावकायार्पयित्वा पुनरपि आज्ञामन्तरेण तस्योपभोगं करोति उपभोक्तारमनुमोदते च. स प्रायश्चित्तः भागी भवति । प्रातिहारिकाऽप्रातिहारिकशय्यासंस्तारकमर्पयितुं गतः किन्तु कारणवशाद् न'समर्पितवान् तच्च शय्यासंस्तारकं तयैवावतिष्ठते तादृशं शय्यासंस्तारकं द्वितीयवारमननुज्ञाप्य तदाज्ञामनवाप्य तस्योपभोगं करोति स प्रायश्चितभागी भवती, तथा तस्याऽऽज्ञाभङ्गादिका दोषा भवन्ति । अननुज्ञातस्य शय्यादेरननुज्ञाप्य, पुनरुपभोगे मायित्वं मृषावदित्वं च स्यात् , तथा अदत्तादानम् अप्र: त्ययः कलहः उपालम्भश्च स्यात् , यस्मादेते दोषास्तस्मात् , कारणात् समर्पितं शय्यासंस्तारक द्वितीयवारमननुज्ञाप्य न भोक्तव्यमिति 'सू० २३॥ .
सूत्रम्--जे-भिक्खू सागारियसंतियं सेज्जासंथारंगं पच्चप्पिणित्तादोच्चंपि अणणुन्नविय अंहिठेइ अहिद्रुतं वा साइज्जइ ॥ सू०२४॥
छाया--यो भिक्षुः सागारिकसत्कं शय्यासंस्तारकं प्रत्यर्पयित्वा द्वितीयमप्यननुशाप्याधितिष्ठति कधितिष्ठन्तं पा स्वदते ॥ सू० २४॥
चूर्णी-'जे भिक्खू सागारिय'० इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'सागारियसंतियं सेज्जासंथारगं' सागारिकसत्कं श्रावकसम्बन्धि यदुपाश्रयः स्थितं तत् पुनः शय्यासंस्तारकं पीठफलकादिकं 'पच्चप्पिणित्ता' प्रत्ययं तदुपभोगाज्ञां समर्प्य तत् पुनः 'दोच्चंपि अणणुन्नविय' - द्वितीयमपि वारम् अननुज्ञाप्य श्रावकस्याज्ञामनादाय 'अहिठेई' अधितिष्ठति तादृशशय्यासंस्तारकस्योपभोगं करोति, तथा 'अहिद्रुतं वा साइज्जई अधितिष्ठन्तमुपभोगं कुर्वन्तं वा श्रमणं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञामलादिका दोषाश्चापि भवन्ति । तस्मात् कारणात् तस्य तादृशस्य सागारिकसत्कशय्याने संस्तारकस्य द्वितीयवारम् अननुज्ञाप्य नोपभोगः करणीयः, न वा तदुपभोक्तुरनुमोदनं करणीयमिति ||मू० २४॥
सूत्रम्-जे भिक्खू सणकप्पासाओ वा उण्णकप्पासाओ वा पोंडकप्पासाओवा अमिलकप्पासाओवादीहसुत्ताइं करेइ करेंतं वा साइज्जड॥
छाया-यो भिक्षः शणकार्पासतो वा ऊर्णाकासितो वा बोण्डकार्पासतो वा अमिलकार्पासतो वा दीर्घसूत्राणि करोति कुर्वन्तं वा स्वदते ॥सू० २५॥
१९