________________
चूर्णि भाष्यावचूरिः उ० ५ सू० २ ६ सचितवृक्षमूले स्थित्वाऽऽ लोकना दिसर्व निषेधः १३७ सूत्रम् — जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा आलोएज्ज वा पलो. एज्ज वा आलोत वा पलोएंत वा साइज्जइ ॥ सू० २॥
छाया - यो भिक्षुः सचित्तवृक्षमूले स्थित्वा आलोकयेद्वा प्रलोकयेद्वा आलोकयन्तं वा प्रलोकयन्तं वा स्वदते ॥सू० २ ||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'सचित्तरुक्खमूलंसि' सचित्तवृक्षमूले, प्रकृतसूत्रं सचित्तवृक्षमूलगतसचित्तभूमिपरकम्, तत्र स्थित्वा यो भिक्षुः 'आलोएज्ज वा' आलोकयेत् - ऊर्ध्वाधस्तिर्यक्षु दिक्षु विदिक्षु काञ्चिदेकां दिशमाश्रित्य पश्येत् एकवारं वा पश्येत् 'पलोएज्ज वा' प्रलोकयेत् - सर्वासु दिक्षु विदिक्षु ऊर्ध्वमघो वारं वारं वा पश्येत् तथा 'आलोएंतं वा पलोएवं वा साइज्जइ' आलोकयन्तं वा प्रलोकयन्तं वा स्वदते । यो हि साधुः सचित्तवृक्षमूले स्थित्वा एकवारमनेकवारं वा आलोकयति तस्यानुमोदनां वा करोति स प्रायश्चित्तभागी भवति । वृक्षमूलं द्विविधं सपरिग्रहं वा अपरिग्रहं वा, सपरिग्रहं तु चतुर्विधम्दिव्यमनुजतियमिश्रपरिगृहीतभेदात् । तत्र दिव्यपरिगृहीतं देवाधिष्ठितम् १, एवं मनुष्य - परिगृहीतं मनुष्याधिष्ठितम् २, तिर्यक्परिगृहीतं तिर्यगधिष्ठितं यत्र गोमहिष्यादयो बद्धा भवेयुस्तत् ३, मिश्रपरिगृहीतं त्रिभिरप्यधिष्ठितम् ४, तत्र देवपरिगृहीतवृक्षमूले स्थित्वा पश्यति तदा साधोः क्षिप्तचित्तयक्षाविष्टोन्मादप्राप्तत्वादयो दोषाः संभवेयुः १, मनुष्यपरिगृहीतवृक्षाधः स्थित्वाऽवलोकने तदधिष्ठातुः शङ्का स्यात्–“किमर्थमयमेवं पश्यति ? किं वृक्षस्य छेदादिकं करिष्यति ?" इत्यादि २, तिर्यक्परिगृहीते तेषामाहारादावन्तरायः स्यात्, साधुदर्शनात् पशवः उद्विग्ना भूत्वा बन्धनं त्रोटयित्वा नश्यन्तीत्यादि ३, मिश्रपरिगृहीते पूर्वोक्ताः सर्वेऽपि दोषाः समापतेयुः ४ । एतद्वचतिरिक्तमपरिंगृहीतम्, तत्राऽपि अनेके दोषा भवन्तीति स्वयमूहनीयम् । अतः साधुर्वृक्षमूले स्थित्वा आलोकनप्रलोकनादिकं न कुर्यात् ।
अत्राह भाष्यकारः
भाष्यम् – सचित्तरुक्खमूलसि, ठिच्चा ठाणाइयं करे । पावs भिक्खुओ सज्जो, आणाभंगाइयं तया ॥
छाया - सचित्तवृक्षमूले स्थित्वा स्थानादिकं कुर्यात् । प्राप्नोति भिक्षुकः सद्य आज्ञाभङ्गादिकं तदा ॥
अवचूरिः - 'सचित्त रुक्खमूलसि' इत्यादि । सचित्तवृक्षमूले स्थित्वा यो भिक्षुः स्थानादिकं कायोत्सर्गशय्यादिकम् कुर्यात्, यदि सचित्तवृक्षमूले स्थित्वा यः कायोत्सर्गादिकं करोति
१५