________________
चूर्णिभाष्यावचूरिः उ० ४ सू० २९-३० हसनपार्श्वस्थादिसंघाटकादानप्रदाननिषेधः १२३
अत्र सूत्रे-भावाधिकरणेन प्रथमभङ्गेनाऽधिकारः, तत्र चैते दोषाः-तापो भवति-अहं तेनाऽतीव तप्ये, एवं भवति तापः साधिकरणस्य । एवं-भेदः-अयशो भवति साधिकरणस्य । तथा-ज्ञानदर्शन-चारित्र-तपसां हासो भवति । तथा-साधिकरणस्य पुरुषस्य संसारोऽपि वर्द्धते, इत्यादयोऽनेके दोषा भवन्ति । तस्मात् कारणात् श्रमणैः श्रमणीभिर्वाऽधिकरणं नोत्पादनीयम् , किन्तु-समभावमास्था य चारित्राराधनं कर्तव्यमिति तीर्थकराणामाज्ञा शास्त्राणां मर्यादा चेति ।। सू० २७॥
सूत्रम्-जे भिक्खू पोराणाई अहिगरणाई खामिय-विओसमियाई पुणो उदीरेइ उदी रेतं वा साइज्जइ ॥ सू० २८॥
छाया-यो भिक्षुः पौराणानि अधिकरणानि क्षामितव्युपशमितानि पुनः उदीरयति उदीरयन्तं वा स्वदते ॥२० २८॥
__ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पोराणाई' पौराणानि पूर्वकालिकानि-पूर्वकालभवानि व्यतीतानीत्यर्थः 'अहिगरणाई' अधिकरणानि-कलहान् । 'खामियविओसमियाई क्षामितव्युपशमितानि, क्षामितानि वन्दनादिना, मतो व्युपशमितानि शान्तीकृतानि तानि यदि 'पुणो उदीरेइ' पुनरुदीरयति उत्पादयति, तथा-'उदीरंतं वा साइज्जइ' उदीरयन्तं समुत्पादयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तस्याऽऽज्ञाभङ्गादयो दोषा भवन्ति ॥सू०२८॥
मत्राह भाष्यकार:भाष्यम्-अहिगरणं पुन्वर्ग, उप्पाएइ जई जइ ।
आणाभंगाईए दोसे, पायच्छित्तं च पावइ । छाया-अधिकरणं पूर्वगमुत्पादयति यतिर्यदि।।
___आज्ञाभङ्गादिकान् दोषान् प्रायश्चित्तं च प्राप्नोति ॥ , अवचूरिः–'अहिगरणं' इत्यादि । यः कश्चिद्भिक्षुः पूर्वगं--पूर्वं गतं क्षान्तं-विशोधितम्मिथ्यादुष्कृतादिनोपशमितमधिकरणं क्लेशरूपं पुनरुत्पादयति । यत्र यदा कदाचित् द्वयोः श्रमणयोः कलहो जातस्ततस्तं मिथ्यादुष्कृतदानादिना शान्तीभूतमपि पुनरेकः कथयति-"त्वं पूर्व ममापमानं कृतवानसि" एवंप्रकारेण परस्परं वार्तालापप्रवाहे पूर्वजातमपि विस्मृतं नवीनं करोति स आज्ञाभङ्गादीन् दोषान् प्रायश्चित्तं च प्राप्नोति । एवं कलहकरणेन मनसि तापो भवति लोकेऽयशो भवति । एवं--ज्ञान--दर्शन-चारित्र-तपसा परिहानिर्भवति, स्वाध्यायादिकालस्य कलहेनैव परिसमाप्तेः । तथा साधुभिः सह प्रद्वेषोऽपि जायते । एवं-कलहकरणात् संसारोऽपि, परिवर्द्धते, कलहेऽवश्यं कषायोदयात् , कषायाणां च संसारकारणत्वात् ।