________________
चूर्णि० उ०३ सू० ७२-७५ वशीकरणसूत्रस्यास्थानेपूच्चारादिपरिष्ठापनस्य च नि० १०७
छाया-मस्तके प्रावरणमंसे कुर्वाणोऽवरोपणम् ।
___ गृहिणो लिङ्गमन्यस्य कुर्वन् दोपभाग् भवेत् ॥
अवचूरिः-'मत्ये' इत्यादि । ग्रामाद्नामान्तरं गच्छन् संयतः मस्तके स्वशिरोदेशे प्रावरणम् आच्छादनम्, असे-स्कन्धस्यैकदेशे शोभार्थम् अवरोपणं-स्थापनं वा कुर्वन्. मस्तके स्कन्धदेशे वा चोलपट्टादिकं वनन् , यद्वा-गृहिणो लिङ्गम्-गृहस्थवेपं, यद्वा -गृहस्थवत् वनाच्छादनं करोति, अन्यस्य वा लिङ्गम् अन्ययूथिकवत् वत्रस्य परिधानादि कुर्वन् तिष्ठति स दोषभाग भवेत् , आज्ञाभङ्गादिकान् दोषान् लभेत ॥सू० ७१॥
सूत्रम्-जे भिक्खू सणकप्पासाओ वा उण्णकप्पासाओ वा बोंडकप्पासाओ वा अमिलकप्पासाओ वा वसीकरणसुत्ताई करेइ करेंत वा साइज्जइ ।। सू० ७२॥ छाया-यो भिक्षुः शणकार्पासाद्वा ऊर्णाकार्पासाद्वा चोंडकार्पासाद्वा अमिलकार्पा
साद्वा वशीकरणसूत्राणि करोति कुर्वन्तं वा स्वदते ॥सू० ७२॥ चूर्णों-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः, 'सणकप्पासाओ वा' शणकार्पासाद्वा--शणसूत्रात् 'उण्णकप्पासाओ वा' ऊर्णाकार्पासाद्वा--ऊर्णासम्पादितसूत्राद्वा 'बोंडकप्पासाओ वा' बोंडकार्पासात् तत्र 'बोंड' इति देशी शब्दः कर्पासवाची तेन बोंडसूत्रादिति कार्पाससूत्राद्वा 'अमिल' इति देशी शब्दः ऊर्णाविशेषवाची तेन अमिलं--ऊर्णाविशेषः, तन्निर्मितसूत्राद्धा एतैः शणकार्पासादिभिः सूत्रैः 'वसीकरणमुत्ताई करेई' वशीकरणसूत्राणि करोति, अयं भावःयो भिक्षुर्वशीकरणाथ पतिपुत्रादि वशीकर्तुं शणकार्पासादिना सूत्राणि करोति-निर्माति । 'करें। वा साइजई' कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७२॥
सूत्रम्-जे भिक्खू गिहंसि वा गिहमुहंसि वा गिहदवारंसि वा गिहपडिदुवारंसि वा गिहेलूयंसि वा गिहंगणंसि वा गिहवच्चंसि वा उच्चारं वा पासवणं वा परिट्ठवेइ परिहतं वा साइज्जइ ॥सू०७३॥
___ छाया-यो भिक्षुः गृहे या गृहमुखे वा गृहद्वारे पा गृहप्रतिद्वारे वा गृहलुके वा गृहाङ्गणे वा गृहवर्चसि वा उच्चारं वा प्रस्रवणं वा परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥सू० ७॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'गिहंसि वा' गृहे वा 'गिहमुइंसि चा' गृहमुखे वा 'गिहदुवारंसि चा' गृहद्वारे वा यदाश्रित्य गेहे प्रविशति--तस्मिन् स्थाने वा, 'गिहपडिदुवारंसि वा' गृहप्रतिद्वारे वा--गृहस्याऽवान्तरद्वारे इत्यर्थः 'गिहेलयंसि वा'