________________
१०६
निशीथसूत्रछाया-दिग्धं मलं स्वयमथाऽत्र पवेत् चित्रं-,
तत्पातने यदि यतेत मुमुक्षुलोकः । शृङ्गारकामुकजनेषु च साधुलोके, भेदः कियानहह ! संशयितं च चेतः ॥ स्वेदादिकं देहमलं निहरेत् स्वदेहतः ।
आज्ञाभङ्गादिकान दोपान प्राप्नुयान्नात्र संशयः ॥ अवचूरिः-'दिद्धं मलं' इत्यादि । अथ-अत्र देहे दिग्ध-लिप्त-शरीरसंग्न मलं वृद्धिंगतं 'सत्' स्वयः मेव पतेत्-शरीरात् पृथग् भवेत् तस्य-स्वयं पततो मलस्य पातने-निष्कासने, शृङ्गारिकजनो व्यवस्यति तथैव क्षुद्रकर्मणि मलनिष्कासने यदि मुमुक्षुलोकः साधुवर्गों यतेत, अत्र चित्रं मन्ये । यः साधुर्मोक्षं यत्नतः साधयति, स यदि यत्नमास्थाय शरीरशोभामेव वयेत्, शरीरशोभामेव साधयेत् तदा शृङ्गारकामुकेषु जनेषु च पुनः साधुलोके कियान् भेदः ! को भेदः ? महह (1) मदीयं चेतः संशयितम् , यथा न संभावयामि यत् शरीरशोभासंलग्नो मुनिर्णोक्षं साधयिष्यतीति । इत्थंमुहुर्मुहुः शास्त्रतत्त्वविद्भिर्बोध्यमानोऽपि यदि भिक्षुः स्वेदेहत स्वदादिकं देहमलम् उपलक्ष णाकर्ण-नेत्रादिमलं निर्हरेत् , तदा-आज्ञाभङ्गादिकान् दोषान् प्राप्नुयात्, अत्र सन्देहो न मन्तव्यः ॥सू० ७०॥
सूत्रम्-जे भिक्खू गामाणुगाम दूइज्जमाणे अप्पणो सीसदुवारियं करेइ करतं वा साइज्जइ ॥ सू० ७१॥
छाया-यो भिक्षुामानुग्राम चन्-आत्मन. शीद्वारिकां करोति कुर्वन्तं वा स्वदते ॥ सू० ७१॥ ___चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'गामाणुगामं दूहन्जमाणे' प्रामानुग्रामं द्रवन्-एकस्माद् ग्रामाद् प्रामान्तरं गच्छन् , शिशिरऋतौ-ग्रीष्मऋतौ च शीत-धर्मवारणार्थ 'अप्पणों' आत्मनः, 'सीसदुचारिय' शीर्पद्वारिका -शीर्षस्य मस्तकस्य द्वारिका आवरकां, शीर्षाऽऽवरणमिति यावत् । साध्वी तु मस्तकं 'बूंघट' इति लोकप्रसिद्धनाऽवगुण्ठयितुं शक्नोतीत्यपवादः । 'करेइ' करोति, आतपः शीतं वा मा वाधतामिति बुद्धया येन केनापि साधनेन मस्तकमाछादयति । 'करेंतं वा साइजई' कुर्वन्तं वा स्वदते । यो हि भिक्षुर्मासकल्पं परिसमाप्य ग्रामाद्ग्रामान्तरं गच्छन् स्वात्मनः शिरसि वस्त्रादिना छत्रवत् प्रावरण-मवगुण्ठनं करोति तथा कुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७१॥
अत्राह भाष्यकार:भाष्यम्- मत्थे पावरणं असे, करेमाणेऽवरोवणं ।
गिहिस्स लिंगमन्नस्स, करंतो दोसभा हवे ।।