________________
१००
निशीथसूत्रे सूत्रम्---जे भिक्ख अप्पणो पाउकिमियं वा कुच्छिकिमियं वा अंगुलीए निवेसिय निवेसिय णीहरइ, णीहरतं वा साइज्जइ ।। सू०४०॥
छाया-यो भिक्षुः आत्मनः पायुकृमिकं वा कुचिकृमिकं वाऽगुल्यां निवेश्य-निवेश्य निहरति, निहरन्तं वा स्वदते ॥ खू० ४० ॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे मिक्खू' यो भिक्षुः 'अप्पणो पाउकिमियं वा' आत्मनः पायुकृमिकं वा स्वगुदास्थितक्षुदजीवान् 'कुच्छिकिमियं वा' कुक्षिकृमिकम् , तत्रकुक्षाबुदरे भवान् - लघुजीवान 'अंगुलीए निवेसिय निवेसिय' अड्गुल्यां निवेश्य निवेश्य-स्वाड्. गुलीमन्तः पायौ-कुक्षौ वा प्रवेश्य प्रवेश्य 'णीहरई' निर्हरति-निष्कासयति ‘णीहरंत चा साइज्जइ' निर्हरन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तमागू भवति । तस्याज्ञाभङ्गानवस्थामिध्यात्वसंयमात्मविराधनादोषा भवन्ति । तत्र विविनाऽविधिना निष्कासने जीवानां विराधनसंभवेन संयमविराधनम् । तथा-कदाचित् देहक्षतौ स्वात्मविराधनम् । तस्मात्कारणात् संयमार्थिना कदाचिदपि कृमीणां निर्हरणं न कर्त्तव्यम् , किन्तु-समभावेन कृमिवाधाजनितं दुःखं सर्वदाऽदीनभावेनाऽघिसोढव्यम् , इति ।। सू० ४०॥
सूत्रम्--जे भिक्खू अप्पणो दीहाओ णहसीहाओ कप्पेज्ज वा संठवेज्ज वा कप्पंतं वा संठवंतं वा साइज्जइ ।। सू०४१॥
छाया-यो भिक्षुः आत्मनो दीर्घाः नखशिखाः कल्पेत वा संस्थापयेद्वा कल्पयन्तं घा संस्थापयन्तं वा स्वदते ॥ सू० ४१ ।। ___चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षु , 'अप्पणो दीहाओ' आत्मनो दीर्घा अतिवमानाः 'नहसिहाओ' नखशिखा:-नखाग्रभागान् 'कप्पेज्ज वा' कल्पेतकर्तयेत् , 'संठवेज्ज वा' संस्थापयेत्-संस्कुर्यात् रागादिना, 'कप्तं वा संठवेतं वा साइज्जई' कल्पमानं-कर्त्तयन्तं संस्थापयन्तं संस्कुर्वन्तं वा स्वदतेऽनुमोदते स प्रयश्चित्तभागू भवति । तस्याऽऽज्ञाभङ्गादयो दोषा भवन्ति । इत आरभ्यैकोनपञ्चाशत्सूत्रं यावत्-जिनकल्पिकमधिकृत्य ज्ञातव्यम् ॥ सू० ४१॥ . मूलम्-एवं-दीहाई बत्थिरोमाई० ॥४२॥ दीहाई चक्खुरोमाई. ४३ दीहाइंजंघरोमाइं० ॥४४॥दी हाई कक्खरामाई ॥४५॥ दीहाई मंसुरोमाइं०॥४६॥ दीहाई केसाइं० ॥४७|| दीहाई कण्णरामाइं० ॥४८॥ एवं नासारोमाई० ॥५०४९॥