________________
चूर्णिभाष्यावचूरिः उ० ३ सू० ४०-४९ पायुकृमिकादिनिस्सारणनखशिखादिकर्त्तननि० ९६ मंखेत्ता, अण्णयरेणं धूवजाएणं धूवेज्ज वा पधूवेज्ज वा, धूवेंतं वा पध्वंतं वा साइज्जइ ।। सू० ३९॥
छाया-यो भिक्षुः आत्मनः काये गण्डं वा पिलकं वा अरतिकां वा अर्को वा भन्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातेन आच्छिद्य-विच्छिद्य निहत्य विशोध्य उच्छोल्यप्रधाव्य विलिप्य सूक्षयित्वा अन्यतरेण धूपजावेन धूपयेद्वा प्रधूपयेद्वा धूपयन्तं वा प्रधूपयन्तं वा स्वदते ॥ सू० ३९॥
चूर्णी - 'जे भिक्खू' इत्यादि ! 'जे भिक्खू' यो भिक्षुः 'अप्पणो कायंसि' आत्मनः काये, गण्डादिकं स्पष्टम् । पूर्वोक्तं सर्वं म्रक्षणादिपर्यन्तं कृत्वा तदनन्तरं 'अन्नयरेणं धृवजाएणं' अन्यतरेण धूपजातेन यं कमपि धूपं वह्नौ प्रक्षिय्य तज्जातधूमेन 'धूवेज्ज वा' धूपयेत्-धूमेनैकवारं धूपयेत् 'पधूवेज्ज वा' प्रधूपयेत्तादृशधूमेन वारं वारम् ‘धृतं वा पधूवेतं वा साइज्जई' धूपयन्तं वा, प्रधूपयन्तं वा स्वदतेऽनुमोदते . स प्रायश्चित्तभाग भवति । तस्याज्ञाभङ्गादयो दोषाश्च भवन्ति ॥ सू० ३९ ॥
अत्राह भाष्यकार:भाष्यम्-कार्यसि अप्पणो भिक्खू , गंडाई जइ छिदए ।
छिदित्ता य विच्छिदित्ता, नीहरे पूयसोणियं ।। णीहरेत्ता विसोहेत्ता, सीओसिणवियटेण वा । उच्छोलेज्जा पधोवेज्जा, विलिंपेज्जाहवा जइ ॥ मंखेत्ता धृवजाएणं, धूवेज्जा अणुमोयए ।
आणाभंगाइदोसाई, पावई नस्थि संसओ ॥ छाया-काये-आत्मनो भिक्षु-गण्डादि यदि छिनत्ति ।
छित्वा च विच्छिद्य निहरेत् पूयशोणितम् ॥ निहत्य विशोध्य शीतोष्णविकटेन वा । उच्छोलेत्प्रधावेत् विलिंपेदथवा यदि ॥ म्रक्षयित्वा धूपजातेन धूपयेदनुमोदयेत् ।
याज्ञाभङ्गादिदोपान प्राप्नोति नास्ति संशयः॥ अवचूरिः- 'कायंसि अप्पणो' इत्यादि । यो भिक्षुर्गण्डादिमात्मनः काये स्थितं यदि छिनत्ति । अथाऽनन्तरम्-छित्त्वा, विच्छिद्य, एकवारमनेकवारं वा । ततः-पूयं वा शोणितं वा निह रेत . निहत्य-विशोध्य वा शीतोदकविकृतेन अचित्तशीतजलेन तण्डुलधावनादिना, अचित्तेप्णोदकेन वा उच्छोलेद्वा प्रघावेद्वा । अथवा विलिप्य म्रक्षयित्वा हस्तलाघवेन मर्दनं कृत्वा, ततो धूपजातेन केनापि धूपेन धूपयेत् । तथाभूतमन्यं वाऽनुमोदते स आज्ञाभङ्गादिदोपान प्राप्नोति अत्र संशयो नाऽस्तीति ।। सू० ३९ ॥