________________
miana
अत्राह भाष्यकार:
भाष्यम् -- वणं च दुविहं णेज्ज, साभावियमथेयरं । साभावियं देहजायं, सत्थाइजमथेयरं ॥ छाया--त्रणं च द्विविधं ज्ञेयं स्वाभाविकमयेतरत् । स्वाभाविकं देहजातं शस्त्रादिजमयेतरत् ॥
निशीथसर्व
अवचूरिः - 'वर्णं च' इत्यादि । शरीरसंबन्धि व्रणं द्विविधं - द्विप्रकारकं भवति । तत्रैकं स्वाभाविकं वाह्यकारणरहितं सत् - जायमानम् । अयेतरत् - इतोऽन्यत् द्वितीयम् इति ज्ञेयम् । तत्रस्वाभाविकं देहस्थितदोषतो जायमानम् आन्तरिकदोषमूलकमित्यर्थः, कुष्ठ - (कोढ) - दद्रु - (दाद) पामा - ( खुजली ) - इति लोकप्रसिद्धं गण्डमालादिकं च । अथेतरत् इतो द्वितीयं शस्त्रादिजातमागन्तुकम् आदिपदात्-खड्ग- कण्टक- स्थाणु-प्रभृतिवस्तुजातसंबाधाजनितानां संग्रहः । एतेषां व्रणानां मध्यादन्यतममपि व्रणं एकवारमनेकवारं वाssमार्जनादिकं करोति स प्रायश्चित्तभाग् भवति, तस्याज्ञाभङ्गादयो दोषा भवन्ति । अत्र गुरोरुपदेशो यथा
" न रोदनं हन्त ! पितर्न मातरालप्य ताड्यः शिरसः प्रदेशः । प्रसन्नचितेन तदीयतीव्र संवेदनायाः सहनं क्रियेत " ॥१॥
प्रसन्नमनसा रोगसंजाततोत्रसंवेदनायाः सहनमेव कार्यम्, न तु हा पितः ! हा मातः ! इति मुहुर्मुहुरालभ्य रोदनं कार्यम्, न वा शिरसो मस्तकस्य प्रदेशो भागस्ताडनीयः । जिनकल्पिकपरकमिदं सूत्रम्, स्थविरकल्पिकस्य तु कारणवशात् व्रणस्य आमार्जनप्रमार्जनादिकं निरवद्यतया कर्त्तुं कल्पते ॥ सू० २८-३३ ॥
सूत्रम् -- जे भिक्खू अप्पणो कार्यसि गंड वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नयरेण तिक्खेण सत्थजाएण आच्छिदज्ज वा विच्छिदेज्ज वा, आच्छिदंतं वा विच्छिदंतं वा साइज्जइ ॥ सू० ३४||
छाया -यो भिक्षुः आत्मनः काये गण्डं वा पिलकं वा अरतिकां वा अर्शो वा भगन्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातेन, आहिन्याहा विच्छिन्द्याद्वा भाच्छिन्दन्तं वा विच्छि न्दन्तं वा स्वदते ॥ सू० ३४ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो कार्यसि' आत्मनः काये - स्वशरीरे 'गंड वा' गण्डं वा तत्र गण्डो नाम य उच्चप्रदेशात् नीचप्रदेशं गच्छति स व्रणः गण्डमाला - कण्ठमालेति लोकप्रसिद्धः, तम्, तथा--पिलकं वा पादत्रणम्, 'अरइयं वा' अरतिकां वा यस्या वेदनया मनसि भरतिरुत्पद्यते, शरीरे रक्तविकारेण जायमानलघुत्रण पुञ्ज