________________
निशीथस्ने
छाया-यो भिक्षुः आत्मनः पादौ तैलेन वा घृतेन वा नवनीतेन वा घसया वा प्रक्षयेद्वा-अभ्यञ्जयेद्वा प्रक्षयन्तं वा अभ्यञ्जयन्तं वा स्वदते ॥ सू० १८ ।।
चूर्णी-'जे भिक्ख' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो पाए' आत्मन:स्वस्य चरणौ, 'तेल्लेण वा तैलेन-तिलतैलेन सर्पपादितैलेन वा, 'घएण वा घृतेन-गोमहिध्यादीनाम् ‘णवणीएण वा' नवनीतेन 'मक्खन' इति प्रसिद्धेन, 'वसाए वा वसया 'च:-ति लोकप्रसिद्धया, चिक्कणपदार्थविशेपेणेत्यर्थः, पूर्वोक्तवस्तुविशेषैः स्वकीयौ चरणौ 'मक्खेज्ज वा' म्रक्षयेत्-एकवारं मर्दयेत् 'मिलिंगेज्ज वा' अभ्यञ्जयेद्वा-पुनः पुनः स्तोक--स्मोकं तैलादिना मर्दयेत् । तथा-'मक्खेंतं वा भिलिंगेंतं वा साइज्जइ' म्रक्षयन्तं वा अभ्यञ्जयन्तं वा स्वदते । यो हि भिक्षुः स्वकीयचरणौ-एकवारमनेकवारं वा तैलादिनाऽभ्यञ्जयति, यश्च तमनुमोदते सोऽसौ प्रायश्चित्तभाग भवति, भवन्ति च तस्य भाज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादयो दोषाः । तस्मात्कारणाद् भिक्षुणा कदापि तैलादिनाऽभ्यञ्जनं न कर्त्तव्यम् , न च कुर्वतो वाऽनुमोदनं करणीयमिति ॥ सू० १८॥
सूत्रम्-जे भिक्खू अप्पणो पाए लोद्धेण वा कक्केण वा चुण्णेण वा वण्णेण वा पउमचुण्णेण वा उल्लालेज्ज वा उबटूटेज्ज वा, उल्लोलंतं वा उव्वटतं वा साइज्जइ ॥ सू० १९॥
छाया-यो भिक्षुः आत्मनः पादौ लोध्रण वा कल्केन वा चूर्णन वा वर्णन या पमचूर्णेन वा उल्लीलयेहा उद्वर्तयेद्वा, उल्लोलयन्तं वा उद्वयन्तं वा स्वदते । सू०१९।।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो पाए' आत्मनः स्वस्य पादौ-चरणौ, 'लोद्धेण वा' लोण-लोधद्रव्येण 'कक्केण वा कल्केनाऽनेकद्रव्यमिश्रितद्रव्यविशेपेण वा, 'चुण्णेण वा' चूर्णेन-पिष्टसुगन्धिद्रव्यविशेषेण' 'वण्णेण वा' वर्णेनाऽवीरादिद्रव्यविशेपेण, 'पउमचुण्णेण वा' पद्मचूर्णेन-सुरभिगन्धद्रव्यविशेषेण 'उल्लोलेज्ज वा' उल्लोलयेद्वा- एकवारं मर्दयेत् 'उबटेज वा' उदृत्तयेद्वा -अनेकवारं मर्दयेत् 'उल्लोलंतं वा उव्वदृतं वा साइजइ' उल्लोलयन्तं वा उद्वर्तयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० १९ ॥
सूत्रम्-जे भिक्खू अप्पणो पाए सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलेंतं वा पधोतं वा साइज्जइ ॥ सू० २०॥