SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०३ सू० १६-१९ स्वपादयोः संवाहन-म्रक्षणोल्लोलनादिनिषेधः ८९ भिक्षाकरणेन प्रतिनिवृत्तः, यद्वा-संज्ञाभूमित आगतः, विहारभूमित मागतः, स्वाध्यायं कृत्वा समागतः, यद्वा-यामान्तराद् गणकार्यं कृत्वा प्रत्यागतः । एतेषु कार्येषु साधुश्चरणौ प्रमार्जयति । एतत् प्रमार्जनमाचीर्णम् , एतद्विपरीतमनाचीण प्रमार्जनमिति कथ्यते । तत्राऽनाचीण चरणप्रमार्जनं कुर्वन् श्रमणः आज्ञाभङ्गादीन् दोषान् लभते । तत्र संयमविराधनेत्थम्-रजोहरणेन येन केनचिदन्येनापि साधनेन चरणप्रमार्जने वायवः संघट्टिता भवन्तीति वायुकायिकजीवानां विराधनं भवति । तथा अन्येऽपि वायुकायिकेपु समुड्डीयमाना मशकादयो जीवा बादराश्च पतगादयः संघहनेन विराधिता भवेयुः, बकुशदोपः, ब्रह्मचर्याऽगुप्तिश्च यस्मात् पादप्रमार्जने संयमविघातः अनेकविधप्राणानां विराधनात् , तस्मात्कारणात् साधुभिरनाचीणं चरणप्रमार्जनं न कथमपि कर्त्तव्यम् ॥ सू० १६ ॥ सूत्रम्-जे भिक्खू अप्पणो पाए संवाहेज्ज वा पलिमद्देज्ज वा संवाहतं वा पलिमहतं वा साइज्जइ ॥ सू० १७॥ . छाया-यो भिक्षुः आत्मनः पादौ संवाहयेद्वा परिमर्दयेद्वा संवाहयन्तं वा परिमर्दयन्तं वा स्वदते ॥ सू० १७॥ चूणीं-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो पाए' आत्मनः स्वस्य पादौ-चरणा 'संवाहेज्ज वा' संवाहयेत्-एकवारं चरणौ संवाहयेत-निष्पीडयेत् 'पगचंपी' ति भाषाप्रसिद्धं कारयेत् 'पलिमद्देज्ज वा परिमर्दयेद्वा वारं वारं चरणयोः संवाहनं कारयेत् । 'संवाहेत वा पलिमदेंतं वा' संवाहयन्तं परिमर्दयन्तं वा, तत्र-संवाहनं चरणादिनिप्पीडनम् , तत् सवाहनं चतुर्विधम्-अस्थिसुखकरम् १, मांससुखकरम् २, रोमसुखकरम् ३, त्वक्सुखकरम् ४ । एवं संवाहयन्तं वा परिमर्दयन्तं वाऽन्यं 'साइज्जई' स्वदते-यः श्रमणः स्वयं चरणयोः संवाहनं परिमर्दनं वा कारयति कारयन्तं वा श्रमणान्तरं अनुमोदते स प्रायश्चित्तभा भवति । तथा-आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादिदोषान् लभते तस्माच्चरणयोः संवाहनं-परिमर्दनं वा न स्वयं कारयेत् न वा कारयन्तमन्यं श्रमणमनुमोदयेत् ॥ सू० १७ ॥ सूत्रम्--जे भिक्खू अप्पणो पाए तेल्लेण वा घएण वा णवणीएण वा वसाए वा मक्खेज्ज वा भिलिंगेज्ज वा मक्वंतं वा भिलिंगेंतं वा साइज्जइ ।। सू० १०॥ १२
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy