________________
चूर्णिभाष्यावचूरिः उ०३ सू०१-५ आगन्त्रागारादिषुगत्वाऽवभाज्यावभाज्ययाचननि० ७९
छाया-यो भिक्षुः आगन्त्रागारेषु वा आरामागारेपु वा गाथापतिकुलेपु वा पर्यावसथेषु वा, अन्ययूथिकान् वा गार्हस्थिकान् वा, अशनं वा पानं वा खाद्यं वा खाद्य वा, अवभाज्याऽवभाष्य याचते याचमानं वा स्वदते ॥ सू० २ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः, 'आगंतागारेसु वा आगन्त्रागारेषु धर्मशालादिषु 'आरामागारेसु वा' आरामागारेपुवा 'गहावइकुलेसु वा गाथापतिकुलेषु वा 'परियावसहेसु वा' पर्यावसथेषु वा, एतेषु पूर्वप्रदर्शितप्रकारेषु स्थानेषु ये स्थितास्तान् 'अण्णउत्थियाओ वा' अन्ययूथिकास्तीर्थान्तरीयाः तापस-शाक्यभिक्षुकादयस्तान वा 'गारत्थियाओ वा' गाहस्थिका गृहस्थाः श्रावकास्तान् वा 'असणं वा पाणं वा खाइम वा साइमं वा' अशनादिचतुविर्धाऽऽहारम् 'ओभासिय-ओभासिय जायई' अवभाष्याऽवभाष्य याचते, महता दीर्घस्वरेण याचनां करोति । आगन्त्रागारादिपु स्थितान् तीर्थान्तरीयान् श्रावकान् वा उच्चैःस्वरेण संबोध्य तेभ्योऽशनादिकं याचते इत्यर्थः । 'जायंतं वा साइज्जइ' याचमान वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति । अत्र सूत्रे प्रथमसूत्रवद्भाष्यं ज्ञातव्यम् । एकत्र-प्रथम सूत्रे दायकपदे एकवचनम् , अपरत्र-द्वितीयसूत्रे बहुवचनमित्यनयोर्भेदः ।। सू० २ ॥
पूर्व पुरुषमधिकृत्य एकत्वबहुत्वेन सूत्रद्वयमुक्तम् , साम्प्रतं स्त्रीमधिकृत्य-एकवचन--बहुवचनाभ्यां सूत्रद्वयमाह
सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसुवा, अण्णउत्थिणिं वा गारथिणि वा असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय-ओभासिय जायइ जायंत वा साइज्जइ ॥ सू० ३॥
छाया-यो भिक्षुः आगन्त्रागारेपु वा आरामागारेपु वा गाथापतिकुलेषु वा पर्या वसथेपु वा अन्ययूथिकी वा गार्हस्थिकी वा अशनं वा पानं वा खाद्यं वा स्वायं वा अवभाष्याऽवभाष्य याचते याचमानं वा स्वदते ॥ सू० ३ ॥
चूर्णी-'जे भिक्ख' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसु वा' आगन्त्रागारेषु 'आरामागारेसु वा' आरामागारेषु वा 'गाहावइछुलेमु वा' गाथापतिकुलेषु वा 'परियावसहेसु वा' पर्यावमथेषु वा 'अण्णउत्थिर्णि वा' अन्ययूथिकी-अन्यतीर्थिकस्त्री 'गारत्थिणि वा' गार्हस्थिकी गृहस्थस्त्री वा 'असणं वा पाणं वा खाइमं वा साइमं वा' अर्शनादिचतुर्विधाऽहारम् , एतदशनादिकमागन्त्रागारादिस्थितानाम् अन्ययूथिकादिस्त्रीणां सकाशादित्यर्थः । यदि-'ओभासिय-ओभासिय' अवभाष्याऽवभाष्य-“साधुरहं मह्यमशनादिकं भवत्या देयम्" इत्येवं.