________________
प्रकाशिका टीका-सप्तमवक्षस्कारा सू. २९ चन्द्रसूर्याणां विमानवाहकदेवसंख्यानि० ४७१ रेण मनोहरेण पूरयन्ति अम्बरं दिशाश्च शोभयन्ति चत्वारि देवसहस्राणि गजरूपधारिणां देवानां दाक्षिणात्यां वाहां परिवहन्तीति ॥ ___ चन्द्रविमानस्य खलु पश्चिमायां खलु श्वेतानां सुमगानां सुप्रभाणां चल चपलककूटशालीनां धननिचित सुबद्धलक्षणोन्मत्तेपदानत षोष्ठानां चंक्रमित ललित पुलकित चलचपल गर्वितगतीनां सन्नतपार्थानां संगतपार्थानां सुजातपार्थानां परिवर्तितसुसंस्थितकटीनाम् अवलम्ब प्रलम्ब लक्षण प्रमाणयुक्त रमणीय वालगण्डानां सभखुरवालियानानां समलिखित शृङ्गतीक्ष्णाग्रसंगतानां तनु सूक्ष्म सुजातस्निग्धलोमच्छविधराणामुपचितमांसलविशाल परिपूर्णस्कन्धप्रदेशसुन्दराणां वैडूर्य भासमानकटाक्षसुनिरीक्षणानां युक्तामाणप्रधानलक्षणप्रशस्तरमणीयगग्गरगळशोभितानां घर घर सुशब्दबद्ध कण्ठपरिमण्डितानां नानामणिकनकरत्नघटिकावैकक्षिक सुकृतमालिकानां वर घण्टा गलकमालोज्ज्वलश्रीधराणां पद्मोत्पल सकलसुरभिमालाविभूषितानां वज्रखुराणां विविधविखुराणां स्फटिकमयदन्तानां तपनीय. जिहानां तपनीयतालुकानां तपनीय योजकसुयोजितानां कामगमानां प्रीतिगमानां मनोगमानो मनोरमाणाममितगतीनाम् अमित बलबीर्यपुरुपकारपराक्रमाणां महता गजितगम्भीररवेण मधुरेण मनोहरेण पूरयन्ति अम्बरदिशाश्च शोभयन्ति चत्वारि देव सहस्राणि वृषभरूपधारिणो देवानाम्, पाश्चात्यो वा परिवहन्तीति चन्द्रविमानस्य खलु उत्तरेण श्वेतानां सुभगानां सुप्रमाणां तरो मल्लिहायनानां हरिमेलक मल्लिकाक्षाणां चंचुरित ललित पुलकित चळचपल चञ्चलगतीनां लङ्गनवलानान धोरण त्रिपदी जयिनी शिक्षितगतीनां ललंतलामगलगतवरभूषणानां सम्नतपार्थानां सजतपार्थानां पीवश्वचितसुसंस्थितकटीनाम, अवकम्ब प्रलम्बलक्षणप्रमाणयुक्त रमणीय चालपुच्छानाम्, तनु सूक्ष्मसुजातस्निग्धलोमच्छ विधराणाम् मृदुविशदसूक्ष्मलक्षणपशस्तविस्तीर्णकेशरवाळधरणाम, ललन्त थासगललाट वर. भूषणानाम् मुखमण्डकावचूलकचामर थासकपरिमण्डित कटीनाम्, तपनीयखुराणाम् तपनीयजिहानां तपनीयतालुकानां तपनीय योत्रक सुयोजितानां कामगमानां प्रीतिगमानां मनोगमानां मनोरमाणाममिवगतीनाम् अमितवलवीयपुरुषकारपराक्रमाणाम् महता हयहेपित किलकिलायितरवेण मनोहरेण पूरयन्ति अम्बरदिशाश्च शोभयन्ति चखारि देव सहस्राणि हयरूपधारिणरां देवानामुत्तां याहां परिवहन्तीति ।
गाथा-पोडश देव सहस्राणि भवन्ति चन्द्रेषु चैव सूर्येषु ।
अष्टावेव सहस्राणि एकै कस्मिन् ग्रहविमाने ॥१॥ चत्वारि सहस्राणि नक्षत्रं च भवन्ति एकैकस्मिन् ।
द्वे चैव सहस्रे तारारूपे एकैकस्मिन् ॥२१॥ एवं सूर्यविमानानां यावत् तारारूपविमानानाम् नवरमेप देवसंघात इति ॥ २९॥
टीका-'चंदविमाणे णं भंते' चन्द्रविमानं खलु भदन्त ! 'कइदेवताहस्सीओ परिवहतिः कति-कियत्संख्यकानि देव सहस्राणि तत्र देवानामाभियोगिकदेवानां सहस्राणि परिवहन्ति