SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ::६६ जम्बुद्वीपप्रप्तिपत्रे सर्वर्या यावत् दुरुढाः सन्तः मार्गतश्च यावत् संपस्थिताः । ततः खलु स शक्रः तेन पञ्चानीकपरिक्षिप्तेन यावत् महेन्द्रध्वजेन पूरतः प्रऋष्यमाणेन चतुरशीत्या सामानिकसहस्त्रैः यावत् परिवृतः सर्वद्धा यावत् रवेण सौधर्मस्य कल्पस्य मध्यं मध्येन तां दिव्यां देवद्धिम् यावत् उपदर्शयन् उपदर्शयन् यत्रैव सौधर्मस्य कल्पस्य औत्तरा निर्याणमार्गः तत्रैव उपागच्छति उपागत्य योजनशतसाहस्त्रिकैः विग्रहः, अवपतन् अवपतन् तया उत्कृष्टया यावत् देवगत्या व्यतिव्रजन् व्यतिव्रजन् तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्य मध्येन यत्रैव नन्दीश्वरद्वीपः यत्रैव दक्षिणपूर्वः रतिकरपर्वतः तत्रैव उपागच्छति, उपागत्य एवं चैव सूर्याभस्य वक्तव्यता नवरं शक्राधिकारी वक्तव्य इति यावत् तां दिव्यां देवद्धिम् यावत् 'दिव्यं यानविमानं प्रतिसंहरन् प्रतिसंहरन् यावत् यत्रैव भगवतः तीर्थङ्करस्य जन्मनगरं यत्रैव भगवत स्तीर्थङ्करस्य जन्मशननं तत्रैव उपागच्छति उपागत्य भगवतस्तीर्थंकरस्य जन्मभवनं तेन दिव्येन यानविमानेन त्रिः कृत्यः आदक्षिणप्रदक्षिणं करोति कृत्वा भगवतः, तीर्थंकरस्य जन्मभवनस्य उत्तरपौरस्त्ये दियभागे चतुरगुलमसंप्राप्तं धरणितले तं दिव्यं यानविमानं स्थापयति स्थापयित्वा अष्टभिः अग्रमहिपीभिः द्वाभ्यामनीकाभ्यां गन्धर्वानीकेन च नाटयानीकेन च सार्द्ध तस्मात् दिव्यात् यानविमानात् पौरस्त्येन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति, ततः खलु शक्रस्य देवेन्द्रस्य देवराजस्य चतुरशीतिः सामानिकसहस्राणि दिव्याद् यानविमानात् उत्तरेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहन्ति अवशेषा देवाश्च देव्यश्च तस्मात् दिव्यात् यानविमानात् दक्षिणेन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहन्ति इति ततः खलु स शक्रो देवेन्द्रो देवराजा, चतुरशीत्या सामानिकसाहस्त्रि, यावत्सार्द्ध संपस्वृितः सर्वद्धर्या यावत् दुन्दुभिनिर्धोपनादितरवेण यत्रैव भगवान् तीर्थङ्करः, ती फरमाता च तत्रैव उपागच्छति उपागत्य, आलोके एव प्रणाम करोति प्रणामं कृत्वा भगवन्तं तीर्थंकर तीर्थकरमातरं च त्रिः कृत्वः आदिक्षणप्रदक्षिणं करोति, कृत्वा करतल यावदेवमवादीत् नमोऽस्तु ते रत्नकुक्षिधरिके ! एवं यथा दिक्कुमार्यः यावत् धन्याऽसि पुण्यासि त्वं कृतार्थाऽसि, अहं खलु देवाज्ञप्रिये ! शको नाम देवेन्द्रो देवरानो भगवस्तीर्थंकरस्य जन्ममहिमानं करिष्यामि तत् खलु युष्माभिने भेतव्यमितिकृत्वा अवस्वापिनी ददाति दत्वा तीर्थकरप्रतिरूपकं करोति तीर्थकरमातुः पा) स्थापयति स्थापवित्वा पञ्चशक्रान् विझुर्वति, चिकुर्ग, एकः शक्रो भगवन्तं तीर्थकरं करतलपुटेन गृह्णाति, 'एकः शक्रः पृष्टतः आतपत्रं धरनि द्वौं गक्रौ उभयोः पार्थयोश्चामरोक्षेपं कुरुतः एकः शक्रः पुरतो वज्रपाणिः सन् प्रकर्पयति । ततः सल्लु स शक्रो देवेन्द्रो देवरानः अन्यैः बहुभिः भवनपतिवानमन्तरज्योतिष्फवैमानिकैः देवै देवीभिश्च साई संपरिवृतः सर्वद्धा यावत् नादितेन तया उत्कृष्टया यावत् व्यनिव्रजन व्यतित्रजन् यत्रैव मन्दरः पर्वतः यत्रैव पण्डुकचनम् यत्रैव अभिपेशिला यत्रैव अभिपेशसिंहासनम् तत्रैव उपागच्छति उपागत्य सिंहासनबरंगतः पूर्वाभिमुखः सन्निपण्णः । इति ॥ ६॥
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy