________________
प्रकाशिका टीका- चतुर्थवक्षस्कारः सू. २८ द्वितीय सुकच्छविजयनिरूपणम्
३५३
तद्यथा - सिद्धायतनकुटं १ नलिनकूटं २ आवर्त्तकूटं ३ मङ्गलावर्त्तकूटम् ४ एतानि कूटानि पश्चशतिकाराजधान्य उत्तरेण, क्व खलु भदन्त ! महाविदेहे वर्षे मङ्गालावर्त्तो नाम विजयः प्रज्ञप्तः ?, गौतम ! नीलवतो दक्षिणेन सीताया उत्तरेण नलिनकूटस्य पौरस्त्येन पङ्कावत्याः पश्चिमेन, अत्र खलु मङ्गालवर्त्तो नाम विजयः प्रज्ञप्तः, यथा कच्छस्य विजयः तथा एप भणितव्यः यावद् मङ्गलावत्तत्र देवः परिवसति, स एतेनार्थेन० ।
क्व खलु भदन्त ! महाविदेहे वर्षे पङ्कावती कुण्डं नाम कुण्डं प्रज्ञप्तम् ?, गौतम ! मङ्गलावर्त्तस्य पौरस्त्येन पुष्कलविजयरय पश्चिमेन नीलवतो दाक्षिणात्ये नितम्बे अत्र खलु पङ्कावती यावत् कुण्डं प्रज्ञप्तम्, तदेव ग्राहावाती कुण्डप्रमाणं यावत् मङ्गलावर्त्त पुष्कलावर्त विजयौ द्विधा विभजमाना २ अवशेषं तदेव यदेव ग्राहावत्याः ।
क्व खलु भदन्त | महाविदेहे वर्षे पुष्कलावत नाम विजयः प्रज्ञप्तः ?, गौतम ! नीलवतो दक्षिणेन सीताया उत्तरेण पङ्कावत्याः पौरस्त्येन एकशैलस्य वक्षस्कारपर्वतस्य पश्चिमेन, अत्र खल पुष्कलावत नाम विजयः प्रज्ञप्तः, यथा कच्छविजयः तथा भणितव्यम् यावत् पुष्कलोऽत्र देवो महर्द्धिकः पल्योपमस्थितिकः प्रतिवसति स एतेनार्थेन० ।
क्व खलु भदन्त ! महाविदेहे वर्षे एकशैलो नाम वक्षस्कारपर्वतः प्रज्ञप्तः १, गौतम ! पुष्कलावर्त्त चक्रवर्तिविजयस्य पौरस्त्येन पुष्कलावती चक्रवर्तिविजयस्य पश्चिमेन नीलवतो दक्षिणेन सीताया उत्तरेण, अत्र खलु एकशैलो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, चित्रकूटगमेन नेतव्यो यावद् देवा असते, चत्वारि कूटानि तद्यथा- सिद्धायतनकूटम् १ एकशैलकूटं २ पुष्कलावर्त्तकूटं ३ पुष्कलावीकूटम् ४, कटानां तदेव पञ्चशतिकं प्रमाणं यावद् एकशैलोऽत्रदेवो महर्द्धिकः । क्व खलु भदन्त ! महाविदे हे वर्षे पुष्कलावती नाम चक्रवर्ति विजयः प्रज्ञप्तः ?, गौतम ! नीलवतो दक्षिणेन सीताया उत्तरेण औत्तराहस्य सीतामुखवनस्य पश्चिमेन एकशैलस्य वक्षस्कारपर्वतस्य पौरस्त्येन, अत्र खलु महाविदेहे वर्षे पुष्कलावती नाम विजयः प्रज्ञप्तः, उत्तरदक्षिणायनः एवं यथा कच्छ विजयस्य यावत् पुष्कलावती चात्र देवः परिवसति, एतेनार्थेन ० ।
क्व खलु भदन्त ! महाविदेहे वर्षे सीताया महानद्या औत्तराहे सीतामुखवनं नाम वनं प्रज्ञप्तम् ?, गौतम ! नीलवतो दक्षिणेन सीताया उत्तरेण पौरस्त्यलवणसमुद्रश्य पश्चिमेन पुष्कलावती चक्रवर्तिविजयस्य पौरस्त्येन, अत्र खलु सीतामुखवनं नाम वनं प्रज्ञप्तम्, उत्तरदक्षिणायतं प्राचीनप्रतीची विस्तीर्ण पोडश योजनमहस्राणि पञ्च च द्वानवतानि योजनशतानि द्वौ च एकोनविंशतिभागौ योजनस्य आयामेन सीताया महानद्या अन्तेन योजनसहसाणि नत्र च द्वाविंशानि योजनशतानि विष्कम्भेण तदनन्तरं च खलु मात्रया २ परिहीयमानं २ नीलवपंधरपर्वतान्तेन एकोनविंशतिभागं योजनस्य विष्कम्भेणेति, तत् खलु एकया पद्मवरवे - दिकया एकेन च वनपण्डेन संपरिक्षिप्तम् वर्णकः सीतामुखवनस्य यावद् देवा आसते, एवमौतराहं पार्श्व समाप्तम् । विजया भणिताः । राजधान्य इमाः - क्षेमा १ क्षेमपुरा २ चैव अरिष्ठा ३ अरिष्ठपुर ४ तथा । खड्गी ५ मज्जूपा ६ अपि च औषधी ७ पुण्डरीकिणी ८ ॥ १ ॥
ज० ४५