________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १८ गन्धमादनवक्षस्कारपर्वतनिरूपणम् १६७ परिभुजमाणाण वा जाव ओराला मणुण्णा जाव गंधा अभिणिस्तवंति, भवे एयारूवे? णो इणटे समटे, गंधमायणस्स णं इत्तो इतराए चेव जाव गंधे पण्णत्ते, से एएणट्रेणं गोयमा ! एवं बुच्चइ गंधमायणे वक्खारपव्वए२, गंधमायणे य इत्थ देवे महिड्डिए परिवसइ, अदुत्तरं च णं सासए णामधिज्जे इति ।सू०१८॥ ___ छाया-क्न खलु भदन्त ! महाविदेहे वर्षे गन्दमादनो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, गौतम ! नीलवतो वर्षधरपर्वतस्य दक्षिणेन मन्दरस्य पर्वतस्य उत्तरपश्चिमेन गन्धिलावत्या विजयस्य पौरस्त्येन उत्तरकुरूणां पश्चिमेन अत्र खलु महाविदेहे वर्षे गन्दमादनो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतीचीनविस्तीर्णः त्रिंशतं योजनसहस्राणि द्वे च नवोत्तरे योजनशते षट् च एकोनविंशतिभागान् योजनस्य आयामेन नीलवद्वर्पधरपर्वतान्तेन चत्वारि योजनशतानि ऊर्ध्वमुच्चत्वेन चत्वारि गव्यूतशतानि उद्वेधेन पश्चयोजनशतानि विष्कम्भेण तदनन्तरं च खलु मात्रया २ उत्सेधोद्वेधपरिवृद्धया परिवर्द्धमानः २ विष्कम्भपरिहान्या परिहीयमानः २ मन्दरपर्वतान्तेन पञ्चयोजनशतानि ऊर्ध्वमुच्चत्वेन पञ्चगव्यूतशतानि उद्वेधेन अगुलस्य असंख्येयभागं विष्कम्भेण प्रज्ञप्तः गजदन्तसंस्थानसंस्थितः सर्वरत्नमयः अच्छ:, उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनपण्डाभ्यां सर्वतः समन्तात् संपरिक्षिप्तः, गन्धमादनस्य खलु वक्षष्कार पर्वतस्य उपरि बहुसमरणणीयो भूमिभागः यावद् आसते।
गन्धमादने खलु वक्षस्कारपर्वते कतिकूटानि प्रज्ञतानि, गौतम ! सप्लकूटानि, तद्यथासिद्धायतनकूटम् १, गन्धमादनकूटम् २, गन्धिलावतीकूटम् ३, उत्तरकुरूकूटम् ४, स्फटिककूटम् ५, लोहिताक्षकूटम् ६, आनन्दकूटम् ७। क्य खलु भदन्त ! गन्धमादने वक्षस्कारपर्वते सिद्धायतनकूटं नाम कूटं प्रज्ञप्तम् ?, गौतम ! मन्दरस्य पर्वतस्य उत्तरपश्चिमेन गन्धमादनकूटस्य दक्षिणपौरस्त्येन, अत्र खलु गंधमादनवक्षस्कारपर्वते सिद्धायतनकूटं नाम कूट प्रज्ञप्तम् , यदेव क्षुद्रहिमवति सिद्धायतनकूटस्य प्रमाणं तदेव एतेषां सर्वेषां भणितव्यम् , एकमेव विदिशासु त्रीणि कूटानि भणितव्यानि, चतुर्थ तृतीयस्य उत्तरपश्चिमेन पश्चमस्य दक्षिणेन, शेषाणि तु उत्तर दक्षिणेन, स्फटिकलोहिताक्षयो भौगङ्करा भोगवत्यो देवते, शेषेषु सदृशना. मका देवाः, पट्टस्वपि प्रासादावतंसका राजधान्यो विदिशासु, अथ केनार्थेन भदन्त ! एवमुच्यते-गन्धमादनो वक्षस्कारपर्वतः २, गौतम ! गन्धमादनस्य खलु वक्षस्कारपर्वतस्य गन्धः स यथा नामकः कोष्ठपुटानां वा यावत् पिष्यमाणानां वा उत्कीर्यमाणानां वा विकीर्यमाणानां वा परिभुज्यमाणानां वा यावद' उदारा मनोज्ञा यावद् गन्धा अभिनिःस्रवन्ति, भवेद एतदूपा ? नो अयमर्थः समर्थः, गन्धमादनस्य खल्लु इतइष्टतरक एव यावद् गन्धः प्रज्ञप्तः, स एतनाथेन गौतम ! एवमुच्यते गन्धमादनो वक्षस्कारपर्वतः २, गन्धमादनश्चात्र देवो महर्द्धिकः परिवसति, अदुत्तरं च खल शाश्वतं नामधेयमिति । सू० १८॥