SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे बुच्चइ णिसहे वासहरपब्बए२?, गोयमा ! णिसहे णं वासहरकव्वए कूड़ा णिसह संठाणसंठिया उसमसंठाणसंठिया, णिसहे य इत्थ देवे महिद्धीए जाव पलिओवमदिइए परिवसइ, से तेणटुणं गोयमा ! एवं वुच्चइ णिसहे वासहरपव्वए २ ॥सू०१६॥ __छाया-तस्य खलु तिगिच्छिदस्य दाक्षिणात्येन तोरणेन हरिन्महानदी प्रव्यूढासती सप्त योजनसहस्राणि चत्वारि च एकविंशानि योजनशतानि एकं च एकोनविंशतिभागं योजनस्य दक्षिणाभिमुखीपर्वतेन गत्वा महाघटमुखप्रवृत्तिकेन यावत् सातिरेक चतुर्योजनशतिकेन प्रपातेन प्रपतति, एवं यैव हरिकान्ताया वक्तव्यता सैव हरितः अपि नेतन्या, जिहिकायाः कुण्डस्य द्वीपस्य भवनस्य तदेव प्रमाणम् अर्थोऽपि भणितव्यः यावद् अधो जगतीं दारयिखा पट् पञ्चाशता सलिलासहजैः समग्रा पौरस्त्यं लवणसमुद्रं समाप्नोति, तदेव प्रबहे च मुखमूले च प्रमाणम् उद्वेधश्च यो हरिकान्तायाः यावद् वनषण्ड संपरिक्षिप्ता, तस्य खलु तिगिच्छिदस्य औत्तराहेण तोरणेन शीता महानदी प्रव्यूढा सती सप्तयोजनसहस्राणि चत्वारि च एकविंशानि योजनशतानि एकं च एकोनविंशति भागं योजनस्य उत्तराभिमुखी पर्वतेन गत्वा महाघटमुखप्रवृत्तिकेन यावत् सातिरेक चतुर्योजनशतिकेन प्रपातेन प्रपतति, शीतोदा खलु महानदी यतः प्रपतति अत्र खलु महत्येका जिविका प्रज्ञता, चत्वारि योजनानि आयामेन पञ्चाशतं योजनानि विष्कम्भेण योजनं वाहल्येन मकरमुखविवृतसंस्थानसंस्थिता सर्ववज्रमयी अच्छा, शीतोदा खल महानदी यत्र प्रपतति अत्र खलु महदेक शीतोदा प्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम् चत्वारि अशीतानि योजनशतानि आयामविष्फम्भेण पञ्चदश अष्टादशानि योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेण अच्छम् एवं कुण्डवक्तव्यता नेतव्या यावत् तोरणाः । तस्य खलु शीतोदा प्रपातकुण्डस्य बहुमध्यदेशभागः, अन खलु महानेकः शीतोदा द्वीपो नाम द्वीप प्रज्ञप्तः, चतुष्पष्टि योजनानि आयामविष्कम्भेण द्वे द्वयुत्तरे योजनशते परिक्षेपेण द्वौं क्रोशावुच्छितो जलान्तात सर्ववज्रमयः अच्छः, शेपं तदेव वेदिका वनपण्ड भूमिभाग भवनशयनीयार्थों भणितव्यः, तस्य खलु शीतोदा प्रपातकुण्डस्य औत्तराहेण तोरणेन शीतोदा महानदी प्रव्यूढा सती देवकुरु मेजमाना २ चित्रविचित्रकूटौ पर्वती निपधदेवकुरुसूरसुलसविधुत्प्रमहदांश्च द्विधा विभजमाना २ चतुरशीत्या सलिलासहस्रः आपूर्यमाणा २ भद्रशालवन मेजमाना २ मन्दरं पर्वतं द्वाभ्यां योजनाभ्यामसम्प्राप्ता पश्चिमाभिमुखी आवृत्ती सती अधीविद्युत् प्रमं वक्षस्कारपर्यंत दारयित्वा मन्दरस्य पर्वतस्य पश्चिमेन अपरविदेहं वर्ष द्विधा विभजमाना २ पञ्चभिः सलिलाशतसहस्रः द्वात्रिंशता च सलिलासहस्रः समग्रा अधो जयन्तस्य द्वारस्य जगतीं दारयित्वा पश्चिमेन लवणसमुद्रं समाप्नोति, शीतोदा खलु महानदी प्रवहे पश्चाशतं योजनानि विष्कम्भेण योजनमुद्वेधेन, तदनन्तरं च खलु मात्रया मात्रया परिवर्द्धमाना २ मुखमुले पञ्च योजनशतानि विष्कम्भेण दश योजनानि उद्वेधेन उभयोः पार्श्वयोः द्वाभ्या
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy