________________
मुनितोषणी टीका, प्रतिक्रमणाध्ययनम् - ४
॥ छाया ॥
केऽपि भणन्ति मूढाः, सयमयोगाना कारण नैवम् । रजोहरणमिति प्रमार्जनादिभिरुपघातभावात् ॥ १ ॥ मूइङ्गलिकादीना, विनाशसन्तानभोग्यविरहादयः । रजोदरिस्थगनससर्जनादिना भवत्युपघात ॥ २ ॥ प्रत्युपेक्ष्य प्रमार्जन, - मुपघातः कथं नु तत्र भवेत् । अपमृज्य च दोषा वर्ज्या आदावागाढव्युत्सर्गे ॥ ३ ॥ आत्मपर परित्यागी द्विधापि शास्त्रस्य (शासितुः) अकौशल नूनम् । सर्जनादिदोषा देहे व अविधिना नो भवन्ति ॥ ४ ॥
इव
२८१
इत्यास्ता विस्तरः प्रकृतमनुत्रियते मुखवस्त्रिका - वायुकाया दियतनार्थ मुखोपरि दवरकेण बन्धनीयमष्टपुटमुपकरणम्, गुच्छकः = पात्रादिप्रमार्जनीविशेषः, पूँजनी' इति भाषाप्रसिद्धः प्रतिगृह्णाति = भक्तपानादिक स्वस्मिन्नाधत्त इति प्रतिग्रह. = भक्तपानादिपात्रम्, रजोहरण च मुखवस्त्रिका च, गुच्छकश्च प्रतिग्रहखेति रजोहरणमुखवस्त्रिकागुच्छ कप्रतिग्रहास्तान् धरन्ते ये ते रजोहरण-मुखवत्रिकागुच्छक - प्रतिग्रहधारा । इत्थ निवादयोऽपि सभवन्तीति तदपाकरणार्थमाह'पंचमहव्त्रयधारा' पञ्चमहानतानि=पाणातिपाताऽनृतभाषणाऽदत्ताऽऽदाना - ऽब्रह्मचर्य परिग्रहव्युपरमलक्षणानि धरन्त इति पञ्च महाव्रतधारा । न केवलमेत एव किन्तुक्तगुणविशिष्टाः सन्तोऽपि - ' अहारससहस्ससीलगधारा ' अष्टादशसहस्त्रशीलाङ्गधारा । अष्टादशशीलाङ्गसहस्राणि तु यथा-यो न करोति मनसाऽऽहारसञ्ज्ञाविमयुत श्रोत्रेन्द्रियसनृत. क्षान्तिसम्पन्न, पृथिवीकायारम्भम् ( १ ), एवमकायारम्भम् (२), तेजस्कायारम्भम् (३), वायुकायारम्भम् ( ४ ), वनस्प तिकायारम्भम् (५), द्वीन्द्रियारम्भम् (६), त्रीन्द्रियारम्भम् (७), चतुरिन्द्रियारम्भम् (८), पञ्चेन्द्रियारम्भम् (९), अजीवारम्भ च (१०) । एते क्षान्तिपदेन धारा.' कर्मण्यण ।
3
"
१- '
२ - निनुवत इति निवाः, पचादेराकृतिगणत्वात्कर्त्तर्यच्, यद्वा निह्नवः = अपलापोऽस्त्येपामिति निहवा., निहत्रशब्दादर्श आदित्वान्मत्वर्थीयोऽच, सज्ञेय तान्त्रिकी ।
३- धारा. ' कर्मण्यण |