________________
सुबोधिनी टीका सु. १५४ सूर्याभदेस्य पूर्व भाजीप्रदेशिराजवर्णनम् ३३७ प्ररूपणामिः-यथार्थस्वरूपनिरूपिकाभिश्च आख्यापयितुं वा प्रज्ञापयितुं वा प्ररूपयितुं वा नो शक्नुवन्ति-समर्था नाभवन् , तदा यथानुपूर्वि यथाक्रमम्, संप्रस्थिताःततोऽग्रे प्रयाताः। एवम्-अनेन प्रकारेण ताम्राऽऽकरं, रूप्याऽऽकरं, सुवर्णाऽऽकरं, रत्नाऽऽरं, वज्राऽऽकर, हीरकरवनिं पश्यन्ति इत्यादि लोहनप्वाकरदर्शनवदेव सर्व वर्णन बोध्यम् । - ततः-लोहमारग्रहणकृताऽऽदरदुर्घ द्धिपुरुषस्यानेकय था.प्रबोधकवाकयप्रपञ्चैः प्रबोधनाःसामर्थ्यानन्तरं खलु ते अल्पमूल्यकपूर्व पूर्व वस्तुपरित्याग पूर्व कबहुमूल्योत्तरोत्तरवस्तुग्रहणवद्धाऽऽदरतया गृहीतवज्रमणिभाराः: पुरुषाः यत्रैव स्वाः- स्वकीयाः जनपदाः-देशाः, यत्रैव स्वानि स्वानि-निजानिःनिजानि नग राणि तत्रैव आगच्छन्ति । वज्रविक्रयण-वज्रमणिविक्रय कुर्वन्ति-कृतवन्तः। तद्विक्रयेण - लब्धबहुद्रव्यैः सुबहुदासीदासगामहिषगवेलकं-सुवहु-अतिप्रचुरं यद् दासी-दास-गो महिप-गवेलकः-तत्र दासी-दास-गो-महिषाः प्रसिद्धाः, गवे. लकाः-मेषाश्चेत्येषां समाहारस्तथा, तत् गृह्णन्ति, अष्टतलोच्छित प्रासादावन्तंस कान् -अष्टौ तलानि यत्र ते अष्टतला:-अष्टभूमिकाः, ते च ते उच्छ्रिताः-उन्नताः गगनचुम्विनः प्रासादावतंसकाः-श्रेष्ठप्रासादास्तान् कारयन्ति, तत्र च स्नाताः कृतस्नानाः, कृतवलियर्माणः-कृनवायसादिनिमित्तानविभागाः, कृतकौतुलमङ्गलप्रा श्चित्ताः दुःस्वमादिफलविघाताय .. धृतदध्यक्षताश्रयाः . . सन्तः उपरि-उध्वं प्रासादवरगताः--मनोहर प्रासादस्थिताः विहरन्तीत्युत्तरेणान्वयः, . किं कुर्वन्तो विहरन्तीत्याह-स्फुटद्भिः-अतिरभसा स्फालनात् स्फुटद्भिरिवः, मृद्गमस्नकैः मृदङ्गमुखपुटैः, द्वात्रिंशद्रद्धकैः- द्वात्रिंशत्प्रकाररचना युक्तः नाटकैः, ते कीदृशैः ? इत्यत्राऽऽह-वगतरुणीसंप्रयुक्तः-विशिष्ट स्त्रीसम्पादितैः, उपनय॑मानाः, नृत्यदृश्यमानाः, उपगीयमानाः गानं श्राव्यमाणाः, उरलाल्यमानाः घिलास्यमानाः, इष्टान , अभिलपितान, शब्दस्पर्श रसरूपगन्धान, पञ्चविधान् मानुष्यकान् कामभोगान् प्रत्यनुभव तो विहरन्ति तिष्ठन्ति । ततः खलु इतश्च सः-अवहेलितहितवचनो लोहभारवाहकः पुरुषः अयोभारेण सह यत्रैव स्वं-निज नगरं, तत्रैव उपागच्छति, उपागत्य तत्र अयोभारकं गृहीत्वा अयोविक्रयणं करोति । तस्मिन्-लोहविक्रयलब्धे, अल्पमूल्ये स्वल्पद्रव्ये आहारवस्त्राद्यानयनेन निष्ठिते-समाप्ते सति स लोहवणिकः पुरुषः क्षीणपरिव्ययः-क्षीण:. मन्दः परिव्ययः परितो व्ययः-द्रव्योपयोगो यस्य तथाभूतः, तान्-वन विक्रयिणपुरुषान् उपरि-ऊर्ध्व भागे, प्रासादवरगतान्-रम्यप्रासादस्थितान यावंद् विहरमाणात स्फुटद्भिर्मृदङ्गमस्तकैः द्वात्रिंशद्ध?ः नाटकैः वरतरुणीसंप्रयुक्तैः उपनय॑मानान् उपगीयमानान् उपलाल्यमानान् इष्टान् शब्द-स्पर्श-रस-रूप-गन्धान पञ्चविधान् मानु