________________
૨૮૨
राजप्रश्नायसूत्रे ते यथानामकाः अनिर्दिष्टनामानः केचित् पुरुषाः वनार्थिन:-वनमेवार्थोऽस्त्येषामिति वनार्थिन:-वनप्रयोजनयुक्ताः वनोपजीविनः वनेन वन्यकाष्ठादिना उपजीविनः जीवन निर्वाहकारिणः काष्ठहारका इत्यर्थः, बनगवेपणया-वननिज्ञा सया ज्योतिः-अग्निं च ज्योतिर्भाजनम्-अग्निपात्रं च गृहीत्वा काष्टानाम्इन्धनानाम् स्थानभूताम् अटवीम् अनुपविष्टाः, ततः-तदनन्तरम् ते पुरुषाः तस्याः अग्रोमिकाया:-जनवसतिरहितायाः, अटव्याः किञ्चिद्देश- स्वल्पदेशम् अनुमाप्ता:-क्रमेण गताः सन्तः एक पुरुषम् एवमवादिषुः-हे देवानुप्रिय ! वयं काष्ठानामटवीं पविशामः, इतः खलु त्वं ज्योतिर्भाजनात्-अग्निपात्रात् ज्योतिः अग्नि गृहीत्वा अस्माकमशनं साधये:-निष्पादयेः. अथ-भोजननिष्पादनसमये ज्योतिर्भाजने तत्-पूर्व तो रक्षिन ज्योतिः विध्यायेत्-- शाम्येत् तदा इत:-एतस्मात् कोप्ठात् खलु त्वं ज्योति:-अग्नि गृहीत्वा अस्माकमशन साधयेः इति कृत्वा-इत्याज्ञाप्य ते काष्ठहारकाः काष्ठाना मटवीमनुप्रविष्टाः, ततः तेषां गमनानन्नर खलु स पुरुपः ततः-मुहूर्ताः' न्तरात्-किञ्चित्कालोनन्तरम् तेपां-वन प्रविष्टानां पुरुषाणाम् अशन' साधयामीति कृत्वा-इत्यभिप्रेत्य यत्र व-यम्मिन्नेव स्थाने ज्योतिर्भाजनमासीद तत्र व-तस्मिन्नेव स्थाने उपागच्छति, परन्तु ज्योतिर्भाजने-अग्निपात् ज्योतिःअग्निम् विध्यातमेव-प्रशान्तमेव पश्यति, ततः खलु सः-अशननिष्पादनार्थी पुरुषः यत्रैव तत् काष्ठ तत्रैव उपागच्छति. उपागत्य तत् काष्ठ सर्वतः समन्तात् समभिलोकते नो चैव-नैव खलु तत्-काष्ठे ज्योतिः-वहि पश्यति. ततः तदनन्तरम् स पुरुषः परिकर कटिन्धनं बध्नाति परशु-कुठारं गृह्णाति तत् काष्ठद्विधा स्फाटित-विदारित करोति-सर्वतः समन्तात् स्मभिलोकते नो चैव खलु तत्-काष्ठे ज्योतिः-वह्नि पश्यति, एवम्-अनेन प्रकारेण यावत्-- यावत्पदेन 'त्रिधा स्फाटित चतुर्धा स्फाटितम्' इत्येषा पदानां सङ्ग्रहो बोध्यः, संख्येयधा-संख्यातखण्ड' स्फाटित क ोति. कृत्वा सर्वतः समन्तात् समभिलोकते, नो चैव तत् ज्योतिः पश्यति, ततः तदनन्तरम् खलु स पुरुषः तस्मिन्-कृतकुठारपहारे काष्ठे द्विधा स्फटिते यावत् संख्येयधासंग्च्यातखण्डशः स्फाटिते वा ज्योतिः अपश्यन् श्रान्तः-श्रम मातः, तान्तः -क्लान्तः, परितान्तः-विशेषतःक्लान्तः, निर्विणः-खिन्नः सन् परशु-कुठारम् एकान्ते-रहसि एडति-देशीयोऽयमेडधातुर्मोचनार्थः, तेन 'मुश्चति' इत्यर्थः. मुक्त्वा परिकर-कटिबन्धन मुश्चति, मुक्त्वा एवमवादीत-अहो!!