________________
२१८
राजप्रश्नीयसूत्रे न्नोचितोऽयमर्थः इति बोध्यम्, के शीश्रमणः प्राइ-हे प्रदेशिम ! एकमेव इत्यमेव तवापि आर्यिकाऽभवत् कुत्र साऽभवदित्यत्राऽऽह-इहैव श्वेतविकायां नगर्या धार्मिकी-यावत्-यावत्पदेन-धर्मानुगादिविशेषणविशिष्टा व्यहरत, सा-आर्यिका खलु मम वक्तव्यतया मम मतेन सुबह यावा-यावत्पदेन"पुण्योपचयं समज्य कालमासे कालं कृत्वाऽन्यतरेषु देवलोकेषु देवतया उपपन्ना, तस्याः खलु आर्थिकायाः त्वं नप्तक:-पौत्रोऽभवः, कीदृशः ? इत्यत्राऽऽह-इष्टः यावद-यावत्पदेन-इष्टकान्तादिविशेषणविशिष्टः उदुम्दर पुष्पमित्र दुर्लभः श्रवणतया, किमङ्ग पुनदर्शनतया, एतादृशम्त्वमभूः । साआर्यिका खलु मानुष्य लोकमागन्तुमिच्छति किन्तु नैव शक्नोति ।
कुतो न शक्नोति ? इति जिज्ञासायामाह-हे पदेशिन् ! चतुर्भि:स्थानः अधुनोपपन्न:-तत्कालोत्पन्नो देवः देवलोकेषु मानुष्यं लोकं शीघ्र मागन्तुमिच्छेद-अभिलषेत् किन्तु नैव शक्नोति-तत्र प्रथमकारणमाहअधुनोपपन्नो देवो देवलोके पु कामभोगेषु मृर्छितः-मू मधिगतः, गृद्धःविषयोपभोगाभिलापग्रस्तः, अथितः आसक्तः, अध्युपपन्नः-प्रत्यारक्तः स खलु मानुष्यान्-मानुष्यलोकसम्बन्धिनः भोगान-शब्दादीन् विषयोन नो आद्रियते नापेक्षते, अतएव नो परिजाना त-विज्ञातु नेच्छति, स खलु देवः कचित् मानुष्य लोकमागन्तुमिच्छेदपि किन्तु देवभोगासक्तया नवागन्तु शक्नोति-नेच्छतीत्यर्थः ११ द्वितीयस्थानमाह-अधुनोपपन्न इत्यारभ्य अध्युपएन्नः' इति पर्यन्तानां विवरण प्राग्वत्, तम्य-देवस्थ मानुष्य-मनु प्यसम्बन्धि प्रेम व्युच्छिन्न मनुष्यलोकसुखापेक्षयाऽधिकदिव्य सुखेन प्रति हत भवति तथा-दिव्य-स्वर्गलोकसम्बन्धि प्रेम संक्रान्त-हृद्यनुमविष्ट भवति, तेन हेतुना स देव आगन्तु न शक्नोति २॥ अधुनोपपन्नो देवो दिव्येषु कामभोगेपु मूच्छितो गृद्धो अथितोऽध्यु पपन्नो भवति, तस्य खलु देवस्य एवम्-अनुपद वक्ष्यमाणस्वरूपो मिलापो भवति तथाहि-इदानीम्-अधुना गमिष्यामि, तथा महतेन घटिकाद्वया. नन्तर गमिष्यामि । तस्मिन् काले इह-मयं लोके नगा:-मातापितृपुत्रकलत्रादयः अल्पायुप. अल्पजोविनः कालधर्मेण-मृत्युन। मयुक्ताः भवन्ति, सः देव आगन्तुं न शक्नोति ३॥ अथ चतुर्थ स्थानमाह-"अधुनोपपन्नो देवो दिव्यभोगासक्तो भवति, तम्य देवस्य औदारिक औदारिकशरीरसम्बन्धी गोमृतककले बरादिसमुद्भूतो दुर्गन्धः प्रतिकूलः घ्राणेन्द्रियाननूकूलः, प्रतिलोमः प्राणानिष्टकरश्चापि भवति । तथा अशुभः सः गन्ध ऊर्ध्वमाप उपरिप्रदेशेऽपि च