________________
६५१
सुवोधिनी टीका. सूत्र ९३ सूर्याभदेवस्य कार्यक्रमवर्णनम् ऊर्ध्व धूपदानान्त सर्व वर्णन पूर्ववद् बोध्यम् १५। ततः स दाक्षिणात्य मुखमण्डपस्य दाक्षिणात्ये. द्वारे समागच्छति, तत्रापि लोमहस्तेन द्वारचेटया. दि प्रमार्जनादि धूपदानपर्यन्तं समस्तं कृत्य पूर्ववत् करोति १८ । ततः म दाक्षिणात्यप्रेक्षागृहमण्डपबमध्यदेशभागस्थितस्य वत्रमयाक्षपाटकस्य १९ मणिपीठिकायाः . २० सिंहासनस्य च ६१ समीपे समागच्छति, तत्र 'स लोमहस्तकेन अक्षपाटकादीनि प्रमाज्य दिव्यजलधाराऽभ्युक्षणादि. धूपदानान्त समस्त कृत्य पूर्ववत् करोति । ततः स क्रमेण दाक्षिणात्यप्रेक्षा गृहमण्डपस्य पाश्चात्ये हारे २४, उत्तरीये द्वारे २७, पौरस्त्ये द्वारे ३०, दक्षिणे च द्वारे ३३, समागच्छति, प्रत्येकत्र प्रमानं नादि धूपदानान्त, करोति (३३) ततः स दाक्षिणात्यचैत्यस्तूपसमीपे समागच्छति, तत्र स स्तूपस्य मणिपीठिकायाश्च पमार्जनौं करोति,. दिव्यजलधार याऽयुक्षणादि धूपदानान्तं च करोति ३५ । ततः स क्रमेण पाश्चात्यमणिपीठिकायाः पाश्चात्य जिनमतिमायाः ३६, उत्तरीय मणिपीठिकाया उत्तरीयजिनप्रतिमायाः ३८, परस्त्य मणिपीठिकायाः पौरस्त्यजिनप्रतिमायाः ४०, दाक्षिणात्यमणिपीठिकाया दाक्षिणात्यजिनप्रतिमायाश्च ४२ समोपे समागच्छति । प्रत्येकत्र प्रमार्जनादि धूपदानान्तं करोति ४३ । ततःस दक्षिणात्यचैत्यक्षसमीपे समागच्छति, प्रमाज नादि धृपदानान्त करोति ४४ । ततो महेन्द्रध्वजसमीपे समागच्छति, पमार्जनादि धूपदानान्तं करोति ४५ । ततो दाक्षिणात्य नन्दापुष्करिणी समीपे समागच्छति, तत्र लोमहस्तकेन तोरणान् ४६ त्रिसोपान-प्रतिरूपकाणि ४७ शालभञ्जिका व्यालरूपाणि च ४९ प्रमार्जयति, दिव्यजलधाराऽभ्युक्षणादि धूपान्त च करोति (४९) ततः स सिद्धायतनम् अनुप्रदक्षिणी कुर्वन् उत्तरीयनन्दापुष्करिणीसमीपे समागच्छति, 'तचेव' तदेव-दक्षिण नन्दापुष्करिणीव देवात्राऽपि धूपान्तं सर्व करोति ५३।ततः स उनरीयचैत्यक्षसमीपे समागच्छति पूर्ववदेव धूपान्तं कृत्य करोति ५४। ततः स उत्तरीयचैत्यस्तूपसमीपे समागच्छति, पूर्ववदेव स्तूपस्य मणि पीठिकायाच प्रमान नादि धूपदानान्त कृत्य करोति ५६ । ततोऽसौ क्रमेण पाश्चात्त्यमणिपीठीकायाः, ५७ पाश्चात्यजिनप्रतिमाया: ५८, उत्तरीयमणिपीठिकायाः, ५९. उत्तरीयजिनप्रतिमायाः ६० पौरस्त्यमणिपीठिकायाः ६१ पौरस्त्यजिनप्रतिमायाः ६२, दक्षिणमणिपीठिकायाः ६३ दक्षिणजिनपतिमायाश्च ६४ समीपे समागच्छति, पूर्वच देव प्रत्येकत्र धूपान्त समस्त, कृत्य करोति (६४) । ततः स उत्तरीयप्रेक्षागृहमण्डपे समागन्छति । अत्र